नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 81 to 90 of 113 verses
Verse 81
लोकस्रजि द्यौर्दिवि चादितेया अप्यादितेयेषु महान्महेन्द्रः । किंकर्तुमर्थी यदि सोऽपि रागाज्जागर्ति कक्षा किमतः परापि ॥
Metre: इन्द्रवज्रा

Verse 82
पदं शतेनाप मखैर्यदिन्द्रः तस्मै स ते याचनचाटुकारः । कुरु प्रसादं तदलंकुरुष्व स्वीकारकृद्भ्रूनटनश्रमेण ॥
Metre: उपजातिः

Verse 83
मन्दाकिनीनन्दनयोर्विहारे देवे धवे देवरि माधवे च । श्रेयः श्रिया यातरि यच्च सख्यां तच्चेतसा भाविनि ! भावयस्व ॥
Metre: इन्द्रवज्रा

Verse 84
रज्यस्व राज्ये जगतामितीन्द्रात्याच्ञाप्रतिष्ठां लभसे त्वमेव । लघूकृतस्वं बलियाचनेन तत्प्राप्तये वामनमामनन्ति ॥
Metre: उपजातिः

Verse 85
यानेव देवान्नमसि त्रिकालं न तत्कृतघ्नीकृतिरौचिती ते । प्रसीद तानप्यनृणान्विधातुं पतिष्यतस्त्वत्पदयोस्त्रिसंध्यम् ॥
Metre: उपजातिः

Verse 86
इत्युक्तवत्या निहितादरेण भैम्या गृहीता मघवत्प्रसादः । स्रक्पारिजातस्य ऋते नलाशां वासैरशेषामपुरूपदाशाम् ॥
Metre: इन्द्रवज्रा

Verse 87
आर्ये ! विचार्यालमिहेति कापि योग्यं सखि ! स्यादिति काचनापि । ओंकार एवोत्तरमस्तु वस्तु मङ्गल्यमत्रेति च काप्यवोचात् ॥
Metre: इन्द्रवज्रा

Verse 88
अनाश्रवा वः किमहं कदापि वक्तुं विशेषः परमस्ति शेषः । इतीरिते भीमजया न दूतीम् आलिङ्गदालीश्च मुदामियत्ता ॥
Metre: उपजातिः

Verse 89
भैमीं च दूत्यं च न किंचिदापम् इति स्वयं भावयतो नलस्य । आलोकमात्राद्यदि तन्मुखेन्दोः अभून्न भिन्नं हृदयारविन्दम् ॥
Metre: उपजातिः

Verse 90
ईषत्स्मितक्षालितसृक्विभागा दृक्संज्ञया वारिततत्तदालिः । स्रजा नमस्कृत्य तयैव शक्रं तां भीमभूरुत्तरयांचकार ॥
Metre: उपजातिः