ऋतुसंहारम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

ऋतुसंहारम्

Enable Parallel


Showing 1 to 10 of 158 verses
Verse 1
प्रचण्डसूर्यः स्पृहणीयचन्द्रमाः सदावगाहक्षतवारिसंचयः । दिनान्तरम्योऽभ्युपशान्तमन्मथो निदाघकालोऽयमुपागतः प्रिये ॥
Metre: वंशस्थम्
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): इदानीं व्याख्यालेशः प्रारभ्यते। तत्रादौ ग्रीष्मऋतुवर्णनसूचकं प्रथमसर्गस्यादिमं काव्यमाह प्रचण्डेति॥ अथ व्याख्या — कविः शृङ्गाररसमुद्दिश्य स्वस्त्रियं ब्रूते - हे प्रिये वल्लभे निदाघकालो ग्रीष्मकालः समुपागतः उपस्थितः । कथंभूतो निदाघकालः - प्रचण्ड सोढुमशक्यः सूर्यो यत्र सः । पुनः कथंभूतः - स्पृहणीयः सर्वेषां वाञ्छनीयश्चन्द्रमा यत्र सः । पुनः कथंभूतः - सदा निरन्तरम्वगाहेन स्नानादिकरणेन क्षतः खण्डितोऽर्थात् शुष्को वारिसञ्चयस्तडागादिर्यत्र स तथा । पुनः कथंभूतः - दिनान्तरम्यः दिनस्यान्ता दिनान्ताः सन्ध्यावसरास्त एव रम्या यत्र सः । अथवा दिनान्ते रम्यो रमणीयो दिनान्तरम्यः । पुनः किंभूतः - अभ्युपशान्तः शान्तभावमुपगतो मन्मथः कामो यत्र सः । तथा `विशेषसूर्यः स्पृहणीयचन्द्रमाः` इति वा पाठः । तत्र विशेषोऽन्य्स्यापेक्षया विशेषतेजाः सूर्यो य़त्र सः । अनेन विशेषसुरतानर्हः कालोऽयमिति सूचितः ।
चन्द्रिकाटीका (मणिरामः): प्रचण्डेति ॥ प्रचण्ड उग्रः सूर्यो दिवाकरो यस्मिन् स तथोक्तः । स्पृहणीयो वाज्छनीयश्चन्द्रमाश्चन्द्रो यस्मिन् स तथोक्तः । `हिमांशुश्चन्द्रमाश्चन्द्रः` इत्यमरः (अ.को.1|3|15) । सदा निरन्तरमवगाहेन निमज्जनपूवंकस्नानेन क्षतः क्षीणो वारिसञ्चयो जलसमूहो यस्मिन् तथोक्तः । दिनान्तः संध्याकालो रम्यो रमणीयो यस्मिन्स तथोक्तः । दिवसे सूर्यसत्त्वादौष्ण्यजनितमाकृलत्वं चन्द्रोदयादिना च शीतलत्वात् तस्य रम्यत्वम् । अभि समन्तात् शान्तो मन्मथः कन्दर्पो यस्मिन् स तथोक्तः । `वसन्ते द्विगुणः कामः` इति वसन्तापगमे कामोपशान्तिः । अयं निदाघकालो ग्रीष्मकाल उपागतः संप्राप्तः । हे प्रिये । वंशस्थवृत्तमेतत् — `जतौ तु वंशस्थमुदीरितं जरो` इति लक्षणात् ॥

Verse 2
निशाः शशाङ्कक्षतनीलराजयः क्वचिद्विचित्रं जलयन्त्रमन्दिरम् । मणिप्रकाराः सरसं च चन्दनं शुचौ प्रिये यान्ति जनस्य सेव्यताम् ॥
Metre: वंशस्थम्
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): निशेति ॥ हे प्रिये शुचावाषाढे जनस्य लोकस्यैतानि वस्तूनि सेवनार्हः सेव्यस्तस्यभावः सेव्यता तां सेव्यतां सेव्यभावं यान्ति प्राप्नुवन्ति । एतानि वस्तूनि जनः सेवत इत्यर्थः । एतानि कानि — निशाः रात्रयः । किम्भूताः निशाः — शशाङ्केन चन्द्रेण क्षताः खण्डिताः नीलराजयोऽन्धकारश्रेणयो यासां ताः । पुनः — सरसं रसोपलक्षितं अर्थात् घृष्टं चन्दनं जनस्य सेव्यतां याति । ग्रीष्मर्तावेतानि वस्तूनि सुखदानि भवन्तीत्यर्थः ॥
चन्द्रिकाटीका (मणिरामः): निशा इति ॥ हे प्रिये क्वचिच्छशाङ्केन चन्द्रमसा कर्त्रा क्षत्ता दूरीकृता नीलराजयस्तमः पङ्क्तयो यासां तास्तथोक्ता निशा रात्रयः । `निशा निशीथिनी रात्रिः` इत्यमरः (अ.को.1|4|4) । क्वचित् विचित्रं जलयन्त्रेण युक्तं मन्दिरं गृहं । क्वचिन्मणिप्रकारा मणिविशेषेणाश्चन्द्रकान्तादयः । क्वचित् सरसं सान्द्रं चन्दनञ्च शुचौ ग्रीष्मकाले जनस्य लोकस्य सेव्यतामुपभोगविषयतां यान्तीति वचनविपरिणामेनान्वयः

Verse 3
सुवासितं हर्म्यतलं मनोहरं प्रियामुखोच्छ्वासविकम्पितं मधु । सुतन्त्रिगीतं मदनस्य दीपनं शुचौ निशीथेऽनुभवन्ति कामिनः ॥
Metre: वंशस्थम्
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): सुवासितमिति ॥ कामिनो भोगिपुरुषाः शुचावाषाढे निशीथेऽर्धरात्रावेतानि वस्तून्यनुभवन्ति सेवन्ते । एतानि कानि — सुवासितं चन्दनकर्पूरादिवासोपलक्षितं हर्म्यतलं गृहोपरिभागम् सेवन्ते । किंभूतं हर्म्यतलं — मनोहरम् । पुनः प्रियामुखोच्छ्वासविकम्पितंमधु । प्रियायाः मुखोच्छ्वासः प्रियामुखोच्छ्वासः प्रियामुखोच्छ्वासस्तेन विकम्पितं विशेषेण कम्पयमानं मधु मद्यं सेवन्ते । पुनः सुतन्त्रि सुष्टु शोभना तन्त्री वीणा यत्र तत् सुतन्त्रि । ईदृशं गीतं गानं सेवन्ते । किंभूतं गीतम् — मदनस्य कामस्य दीपनं कामोद्दीप्तिकरमित्यर्थः ॥
चन्द्रिकाटीका (मणिरामः): सुवासितमिति ॥ कामिनो विलासिनः शुचौ ग्रीष्मकाले निशीथे अर्धरात्रे । `अर्धरात्रनिशीथौ द्वौ` इत्यमरः (अ.को.1|4|7) । सुवासितं सुगन्धजलसेकादिना सुगन्धीकृतं मनोहरं सुन्दरं हर्म्यतलं प्रासादतलम् । प्रियामुखस्य कान्तावदनस्योच्छ्वासेन विकम्पितं मधु । मदनस्य कन्दर्पस्य दीपनमुद्दीपकं सुतन्त्रिणा गीतं गानं च । `गीतं गानमिमे समे` इत्यमरः (अ.को.1।6।28) । अनुभवन्ति आस्वादयन्तीत्यर्थः । एतेनापि ग्रीष्मकालस्य कामिनां मनोहरत्वमुक्तम् ॥

Verse 4
नितम्बबिम्बैः सदुकूलमेखलैः स्तनैः सहाराभरणैः सचन्दनैः । शिरोरुहैः स्नानकषायवासितैः स्त्रियो निदाघं शमयन्ति कामिनाम् ॥
Metre: वंशस्थम्
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): नितम्बेति ॥ स्त्रियः कामिनामेभिर्वस्तुभिः कृत्वा निदाघं तापं शमयन्ति । एभिः कैः — सुदुकूलमेखलैर्नितम्बबिम्बैः दुकूलञ्च मेक्खला च दुकूलमेखले ताभ्यां सह वर्तन्त इति तथा तैर्नितम्बबिम्बैः । कटिपश्चाद्भागा नितम्बास्त एव बिम्बाः बिम्बवच्चक्राकारा नितम्बबिम्बास्तैः । पुनः कैः — सहाराभरणैः स्तनैः । हारा मुक्तामयाश्चाभरणान्यलङ्काराणि च तथा तैः सह वर्तन्ते । अथवा हारा एवाभरणानि तैः सह वर्तन्त ईदृशैः स्तनैरुरोजैस्तापं शमयन्ति । किंभूतैः स्तनैः —सचन्दनैः चन्दनानुलिप्तैः । पुनः — स्नानकषायवाषितैः शिरोरुहैः स्नानस्य कषायेण कषायगन्धेन वासितास्तथा तैरथवा स्नानस्य स्नानार्थं वा कषायः क्वाथोऽर्थात् तैः वासितास्तथा । तैः शिरोरुहैः केशैः भृशं तापं शमयन्ति । एषां स्पर्शैः कामिनां कामोद्भवतापोपशान्तिजनको भवतीत्यर्थः ॥
चन्द्रिकाटीका (मणिरामः): नितम्बेति ॥ स्त्रियो विलासिन्यो दुकूलानि वस्त्राणि मेखला रशनाश्च ताभिः सहितानि तैस्तथोक्तैर्नितम्बबिम्बैः कटिपश्चाद्भागैः । `पश्चान्नितम्बः स्त्रीकट्याः` इत्यमरः (अ.को.2|6|75) । हारा आभरणानि च तैः सहितास्तैस्तथोक्तैः स चन्दनैश्चन्दनलिप्तैः स्तनैः स्नाने स्नानकाले यः कषायो लापितसुगन्धिद्रव्यं तेन वासिताः सञ्जातवासास्तैस्तथोक्तैश्शिरोरुहैः केशैः कामिनां निदाघमूष्माणं शमयन्ति दूरीकुर्वन्तीत्यर्थः ॥

Verse 5
नितान्तलाक्षारसरागरञ्जितैर्नितम्बिनीनां चरणैः सनूपुरैः । पदे पदे हंसरुतानुकारिभिर्जनस्य चित्तं क्रियते समन्मथम् ॥
Metre: वंशस्थम्
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): नितान्तेति ॥ नितम्बिनीनां चरणैः पादैः जनस्य चित्तं समन्मथं सकामं क्रियते । स्थूलः सुभगो वा नितम्बो विद्यते यासां तास्तथा तासां तरुणीनां मन्मथेन स्मरेण सह वर्तत इति समन्मथम् । किंभूतैश्चरणैः — नितान्तलाक्षारसरागरञ्जितैः । लाक्षाया रसो द्रव्यस्तस्य रागो रक्तत्वं लाक्षारसरागः । नितान्तमतिशयेन लाक्षारसरागस्तेन रञ्जिता अरुणत्वमापादितास्तथा तैः । पुनः किंभूतैश्चरणैः — सनूपुरैः नूपुरोपलक्षितैः । पुनः किंभूतैः — पदे पदे चरणयोर्न्यासे न्यासे हंसस्य रुतं शब्दमनुकुर्वन्तीति हंसरुतानुकारिणस्तैः । पदे पदे हंसस्वन इव शब्दायमानैः । अतोऽत्र स्त्रियोऽपि मनोहारिण्यो भवन्तीति भावः ॥
चन्द्रिकाटीका (मणिरामः): नितान्तेति ॥ नितान्तमत्यन्तं लाक्षारसस्य रागेण रञ्जितास्तैस्तथोक्तैः सनूपुरैर्मञ्जीरसहितैः `मञ्जीरो नूपुरोऽस्त्रियाम्` इत्यमरः (अ.को.2|6|110) । पदे पदे प्रतिपदं हंसरुतं मरालशब्दमनुकुर्वन्ति तैस्तथोक्तैर्नितम्बिनीनां चरणैर्जनस्य लोकस्य चित्तमन्तःकरणं समन्मथं मदनसहितम् । `मदनो मन्मथो मारः` इत्यमरः (अ.को.1|1|27) । क्रियत इत्यर्थः ॥

Verse 6
पयोधराश्चन्दनपङ्कचर्चितास्तुषारगौरार्पितहारशेखराः । नितम्बदेशाश्च सहेममेखलाः प्रकुर्वते कस्य मनो न सोत्सुकम् ॥
Metre: वंशस्थम्
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): पयोधरेति ॥ पयोधराः स्तनाश्च पुनर्नितम्बदेशाः कटिपश्चाद्भागाः कस्य पुरुषस्य मनः सोत्सुकं नारीरमणलालसं न प्रकुर्वते । अपि तु सर्वस्य मनः सोत्सुकम् प्रकुर्वत इत्यर्थः । किंभूताः पयोधराः — चन्दनस्य पङ्कः कर्दमस्तेन चर्चिताः कृतलेपाः । पुनः किंभूताः — तुषारवद् हिमवद् गौरा धवलाः अर्पिता स्थापिता हाराः शेखरे अगरे उपरिप्रदेशे येषां तैः । किंभूता नितम्बदेशाः — हेम्नः सुवर्णस्य मेखलाभी रशनाभिः सह वर्तन्त इति सहेममेखलाः । अनेन स्त्रीणामस्यन्तरमणीयत्वं सूचितम् ॥
चन्द्रिकाटीका (मणिरामः): पयोधरा इति ॥चन्दनस्य पङ्केन द्रवेण चर्चिताः लिप्ताः तुषारवद्गौराः शुब्रवर्णा अर्पिता हारशेखराः श्रेष्ठहारा येषु ते तयोक्ताः पयोधराः स्तनाः । सहेममेखलाः सुवर्णरशनासहिताः । `स्त्रीकट्यां मेखला काञ्ची सप्तकी रशना तथा` इत्यमरः (अ.को.2।6।209) । नितम्बदेशाः श्रोणीबन्धाश्च मनः सोत्सुकं सोत्कण्ठं न प्रकुर्वर्ते प्रकर्षेण न कुर्वन्ति अपि तु सर्वस्यापीत्यर्थः ॥

Verse 7
समुद्गतस्वेदचिताङ्गसंधयो विमुच्य वासांसि गुरूणि साम्प्रतम् । स्तनेषु तन्वंशुकमुन्नतस्तना निवेशयन्ति प्रमदाः सयौवनाः ॥
Metre: वंशस्थम्
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): समुद्गतेति ॥ य पुनः सह यौवनेन तारुण्येन वर्तन्त इति सयौवनाः प्रमदाः । साम्प्रतं ग्रीष्मावसरे स्तनेषु अच्छ सूक्ष्मं च तदंशुकं वस्त्रञ्च अच्छांशुकं तन्निवेशयन्ति स्थापयन्ति । किं भूताः प्रमदाः — उन्नतस्तनाः उन्नताः स्तनाः यासां ताः । किं कृत्वा — गुरुणि स्थूलानि वासांसि वस्त्राणि विमुच्य मुक्त्वा । पुनः किंभूताः प्रमदाः — समुद्गत उत्पन्नो योऽसौ स्वेदः प्रस्वेदस्तेन चिता व्याप्ता अतएवार्द्राः सन्धयः कक्षादयो यासां ताः ।
चन्द्रिकाटीका (मणिरामः): समुद्गतेति ॥ समुद्गतो निर्गतो यः स्वेदो घर्मस्तेन चिता व्याप्ता अङ्गसन्धयो बाहुमूलादयो यासां तास्तथोक्ताः सयौवनास्तारुण्यसहिता उन्नतस्तना उच्चकुचाः प्रमदाः स्त्रियः साम्प्रतमिदानीं गुरूणि जडानि वासांसि वस्त्राणि विमुच्य दूरीकृत्य स्तनेषु कुचेषु तनु सूक्ष्मम् अंशुकं वासः कञ्चुकादि निवेशयन्ति स्थापयन्तीत्यर्थः ॥

Verse 8
सचन्दनाम्बुव्यजनोद्भवानिलैः सहारयष्टिस्तनमण्डलार्पणैः । सवल्लकीकाकलिगीतनिस्वनैर्विबोध्यते सुप्त इवाद्य मन्मथः ॥
Metre: वंशस्थम्
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): सचन्दनेति ॥ एभिर्वस्तुभिरद्य साम्प्रतं सुप्तो मन्मथः कामः प्रबोध्यते इव जागरुकः क्रियत इव । एभिः कैः — सचन्दनेन्दुव्यजनोद्भवानिलैः चन्दनञ्चेन्दुः कर्पूरश्च चन्दनेन्दू ताभ्यां सहिता ये व्यजनोद्भवानिलास्तालवृन्तजनितवायवस्तथा तैः अर्थाच्चन्दनचन्द्ररसाश्लिष्टव्यजनवातैः । किंभूतैः सचन्दनेन्दुव्यजनोद्भवानिलैः — सहारयष्टिस्तनमण्डलार्पितैः । हारयष्ट्या मुक्तामयहारेण सहितं यत्स्तनमण्डलं तस्मिन्नर्पितास्तापोपशान्त्यर्थं स्थापिता अर्थाद्विहितास्तथा तैः । पुनः कैः — सवल्लकीकाकलगीतिनिः सवनैः वल्लक्याः वीणायाः काकलेन सूक्ष्मध्वनिना सह या गीतिर्गानं तस्याः निःस्वनाः शब्दास्तथा तैः । `काकलीति कलः सूक्ष्मे` इत्यभिधानचिन्तामणौ (6|46) ग्रीष्मर्तौ चन्दन चन्द्र व्यजन वात सहारयष्टि तरुणी स्तन मण्डल वीणारागाः कामोद्दीप्तिकरा भवन्तीति भावः ॥
चन्द्रिकाटीका (मणिरामः): सचन्दनेति ॥ चन्दनाम्बुना चन्दनजलेन चन्दनद्रवेणेति यावत् सहितं युक्तं यद् व्यजनं तदुद्भवास्तदुत्पन्ना येऽनिला वायवस्तैः हारयष्ट्या कुसुममालया सहितानि युक्तानि यानि स्तनमण्डलानि कुचमण्डलानि तेषाम् अर्पणैः वल्लक्या वीणया सहिताश्च ते काकलिनः सूक्ष्मकलाश्च ते गीतनिस्वना गाननिनादाश्च तैः । `वीणा तु वल्लकी` इत्यमरः (अ.को.1।7।4) । `काकली तु कले सूक्ष्मे` इत्यमरः (अ.को.1।7।2) । `गीतं गानमिमे समे` इत्यमरः (अ.को.1।6।28) । अद्य मन्मथः कामः सुप्त इव निद्रिइत इव राजेवेत्यर्थः । बिबोध्यते उद्बोध्यते ॥

Verse 9
सितेषु हर्म्येषु निशासु योषितां सुखप्रसुप्तानि मुखानि चन्द्रमाः । विलोक्य नूनं भृशमुत्सुकश्चिरं निशाक्षये याति ह्रियेव पाण्डुताम् ॥
Metre: वंशस्थम्
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): सितेष्विति ॥ चन्द्रमा निशाक्षये निशायाः रात्रेः क्षयो विनाशो निशाक्षयस्तस्मिन् । रात्र्यन्ते ह्रिया लज्जयेव पाण्डुतां श्वेतत्वं याति प्राप्नोति । किं कृत्वा — निशासु रात्रिषु सितेषु श्वेतवर्णेषु हर्म्येषु अर्थात् सुधाधवलितेषु गृहोपरिभागेषु योषितां स्त्रीणां मुखानि वक्त्राणि विलोक्य दृष्ट्वा । किंभूतानि मुखानि — निर्यन्त्रणं यन्त्रणमर्गलाच्छादनादि तद्रहितं यथा भवति तथा । सुखप्रसुप्तानि सुखेन प्रसुप्तानि सुप्तामवस्थां गतानि सुखप्रसुप्तानि तानि । किंभूतश्चन्द्रः — उत्सुकः जेतुमुद्यतः । अन्योऽपि कमपि जेतुमुत्कण्ठितः पश्चात्तस्य गुणाधिक्यं विलोक्य विच्छायत्वं प्राप्नोतिति । किंतु चन्द्रादपि स्त्रीमुखानि निशान्तेषु सुन्दराणि लगन्तीति भावः ॥
चन्द्रिकाटीका (मणिरामः): सितेष्विति ॥ चन्द्रमा निशासु रात्रिषु सितेषु धवलेषु हर्म्येषु प्रासादेषु योषितां स्त्रीणां सुखेन प्रसुप्तानि निद्रितानि मुखानि वदनानि चिरं चिरकालं विलोक्यावलोक्यभृशमत्युत्सुक उत्कण्ठितः सन्निशाक्षये रात्रिक्षये ह्रियेव लज्जयेव पाण्डुतां पाण्डुरतां याति गच्छति । नूनमिति वितर्के ॥

Verse 10
असह्यवातोद्धतरेणुमण्डला प्रचण्डसूर्यातपतापिता मही । न शक्यते द्रष्टुमपि प्रवासिभिः प्रियावियोगानलदग्धमानसैः ॥
Metre: वंशस्थम्
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): असह्येति ॥ मही प्रवासिभिः पान्थैर्द्रष्टुमपिन शक्यते न समर्थैर्भूयते । किंभूता मही — असह्यवातोद्धतरेणुमण्डला । असह्यो योऽसौ वातः असह्यवातः तेनोद्गतानि उच्छालितानि रेणुमण्डलानि रजः पूराणि यस्यां सा । पुनः किंभूता मही — प्रचण्डो रौद्रो योऽसौ सूर्यातपस्तेन तापिता तथा । किंभूतैः प्रवासिभिः — प्रियायाः स्त्रीयाया योऽसौ वियोगो विरहः स एवानलोऽग्निस्तेन दग्धं मानसं येषां ते तथा तैः । अनेन प्रवासिनामत्यन्ताप्रीतिकरोऽयमिति सूचितम् ॥
चन्द्रिकाटीका (मणिरामः): असह्येति ॥ प्रियावियोगः कान्तावियोगः स एवानलोऽग्निस्तेन दग्धं भस्मीभूतं मानसमन्तःकरणं येषां तैस्तथोक्तैः प्रवासिभिर्विदेशवासिभिरसह्यः सोढुमशक्यो यो वातो वायुस्तेनोद्धतमूर्ध्वं क्षिप्तं रेणुमण्डलं यस्याः सा तथोक्ता । प्रचण्ड उग्रो यः सूर्यस्य तरणेरातपः उष्णं तेन तापिता सन्तापिता मही पृथ्वी द्रष्टुमपि न शक्यते गन्तुं न शक्यत इत्यत्र किं वक्तव्यमित्यर्थः ॥

Showing 1 to 10 of 158 verses