ज्याकृष्टिबद्धखटकामुखपाणिपृष्ठप्रेङ्खन्नखांशुचयसंवलितोऽम्बिकायाः । त्वां पातु मञ्जरितपल्लवकर्णपूरलोभभ्रमद्भ्रमरविभ्रमभृत्कटाक्षः ॥
Metre: वसन्ततिलका
क्षिप्तो हस्तावलग्नः प्रसभम् अभिहतोऽप्य् आददानोऽंशुकान्तं गृह्णन्केशेष्वपास्तश्चरणनिपतितो नेक्षितः सम्भ्रमेण । आलिङ्गन्योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः ॥
Metre: स्रग्धरा
आलोलाम् अलकावलीं विलुलितां बिभ्रच्चलत्कुण्डलं किंचिन्मृष्टविशेषकं तनुतरैः खेदाम्भसां शीकरैः । तन्व्या यत्सुरतान्ततान्तनयनं वक्त्रं रतिव्यत्यये तत्त्वां पातु चिराय किं हरिहरब्रह्मादिभिर्दैवतैः ॥
Metre: शार्दूलविक्रीडितम्
अलसवलितैः प्रेमार्द्रार्द्रैर्मुहुर्मुकुलीकृतैः क्षणम् अभिमुखैर्लज्जालोलैर्निमेषपराङ्मुखैः । हृदयनिहितं भावाकूतं वमद्भिरिवेक्षणैः कथय सुकृती कोऽयं मुग्धे त्वयाद्य विलोक्यते ॥
Metre: हरिणी
दत्तोऽस्याः प्रणयस्त्वयैव भवता चेयं चिरं लालिता दैवाद् अद्य किल त्वमेव कृतवान् अस्या नवं विप्रियम् । मन्युर्दुःसह एष यात्युपशमं नो सान्त्ववादैः स्फुटं हे निस्त्रंश विमुक्तकण्ठकरुणं तावत्सखी रोदितु ॥
Metre: शार्दूलविक्रीडितम्
लिखन्नास्ते भूमिं बहिरवनतः प्राणदयितो निराहाराः सख्यः सततरुदितोच्छूननयनाः । परित्यक्तं सर्वं हसितपठितं पञ्जरशुकैस्तवावस्था चेयं विसृज कठिने मानमधुना ॥
Metre: शिखरिणी
नार्यस्तन्वि हठाद्धरन्ति रमणं तिष्ठन्ति नो वारितास्तत्किं ताम्यसि किं च रोदिषि मुधा तासां प्रियं मा कृथाः । कान्तः केलिरुचिर्युवा सहृदयस्तादृक्पतिः कातरे किं नो बर्करकर्करैः प्रियशतैराक्रम्य विक्रीयते ॥
Metre: शार्दूलविक्रीडितम्
कोपात्कोमललोलबाहुलतिकापाशेन बद्धा दृढं नीत्वा केलिनिकेतनं दयितया सायं सखीनां पुरः । भूयोऽप्येवमिति स्खलन्मृदुगिरा संसूच्य दुश्चेष्टितं धन्यो हन्यत एव निह्नुतिपरः प्रेयान्रुदत्या हसन् ॥
Metre: शार्दूलविक्रीडितम्
प्रहरविरतौ मध्ये वाह्नस्ततोऽपि परेऽथवा किमुत सकले जाते वाह्णि प्रिय त्वमिहैष्यसि । इति दिनशतप्राप्यं देशं प्रियस्य यियासतो हरति गमनं बालालापैः सबाष्पगलज्जलैः ॥
Metre: हरिणी
याताः किं न मिलन्ति सुन्दरि पुनश्चिन्ता त्वया मत्कृते नो कार्या नितरां कृशामि कथयत्येवं सबाष्पे मयि । लज्जामन्थरतारकेण निपतद्धाराश्रुणा चक्षुषा दृष्ट्वा मां हसितेन भाविमरणोत्साहस्तया सूचितः ॥
Metre: शार्दूलविक्रीडितम्