श्रियः कुरूणामधिपस्य पालनीं प्रजासु वृत्तिं यमयुङ्क्त वेदितुम् । स वर्णिलिङ्गी विदितः समाययौ युधिष्ठिरं द्वैतवने वनेचरः ॥
Metre: वंशस्थम्
कृतप्रणामस्य महीं महीभुजे जितां सपत्नेन निवेदयिष्यतः । न विव्यथे तस्य मनो न हि प्रियं प्रवक्तुमिच्छन्ति मृषा हितैषिणः ॥
Metre: वंशस्थम्
द्विषां विघाताय विधातुमिच्छतो रहस्यनुज्ञामधिगम्य भूभृतः । स सौष्ठवौदार्यविशेषशालिनीं विनिश्चितार्थामिति वाचमादधे ॥
Metre: वंशस्थम्
क्रियासु युक्तैर्नृप चारचक्षुषो न वञ्चनीयाः प्रभवोऽनुजीविभिः । अतोऽर्हसि क्षन्तुमसाधु साधु वा हितं मनोहारि च दुर्लभं वचः ॥
Metre: वंशस्थम्
स किंसखा साधु न शास्ति योऽधिपं हितान्न यः संशृणुते स किंप्रभुः । सदानुकूलेषु हि कुर्वते रतिं नृपेष्वमात्येषु च सर्वसम्पदः ॥
Metre: वंशस्थम्
निसर्गदुर्बोधमबोधविक्लवाः क्व भूपतीनां चरितं क्व जन्तवः । तवानुभावोऽयमबोधि यन्मया निगूढतत्त्वं नयवर्त्म विद्विषाम् ॥
Metre: वंशस्थम्
विशङ्कमानो भवतः पराभवं नृपासनस्थोऽपि वनाधिवासिनः । दुरोदरच्छद्मजितां समीहते नयेन जेतुं जगतीं सुयोधनः ॥
Metre: वंशस्थम्
तथापि जिह्मः स भवज्जिगीषया तनोति शुभ्रं गुणसम्पदा यशः । समुन्नयन्भूतिमनार्यसंगमाद्वरं विरोधोऽपि समं महात्मभिः ॥
Metre: वंशस्थम्
कृतारिषड्वर्गजयेन मानवीमगम्यरूपां पदवीं प्रपित्सुना । विभज्य नक्तंदिनमस्ततन्द्रिणा वितन्यते तेन नयेन पौरुषम् ॥
Metre: वंशस्थम्
सखीनिव प्रीतियुजोऽनुजीविनः समानमानान्सुहृदश्च बन्धुभिः । स सन्ततं दर्शयते गतस्मयः कृताधिपत्यामिव साधु बन्धुताम् ॥
Metre: वंशस्थम्