रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 1 to 10 of 1569 verses
Verse 1
वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): वागर्थाविति॥ `वागर्थाविव` इत्येकं पदम् । इवेन सह नित्यसमासो विभक्त्यलोपश्च पूर्वपदप्रकृतिस्वरत्वं चेति वक्तव्यम्, एवमन्यत्रापि द्रष्टव्यम्। वागर्थाविव शब्दार्थाविव, संपृक्तौ । नित्यसंबद्धावित्यर्थथः। नित्यसंबद्धयोरुपमानत्वेनोपादानात् `नित्यः शब्दार्थसंबन्धः` इति मीमांसकाः। जगतो लोकस्य पितरौ। माता च पिता च पितरौ, `पिता मात्रा` (पा.1।2।70) इति द्वन्द्वैकशेषः। `मातापितरौ पितरौ मातरपितरौ प्रसू जनयितारौ` इत्यमरः। एतेन शर्वशिवयोः सर्वजगज्जनकतया वैशिष्ट्यमिष्टार्छप्रदानशक्तिः परमकारुणिकत्वं च सूच्यते। पर्वतस्यापत्यं स्त्री पार्वती। `तस्यापत्यम्` (पा.4।1।92) इच्यण्, `टिङ्ढाणञ्-` (पा.4।1।15)इत्यादिना ङीप्। पार्वती च परमेश्वरश्च पार्वतीपरमेश्वरौ। `परम` शब्दः सर्वोत्तमत्वद्योतनार्थः। मातुरभ्यर्हितत्वादल्पाक्षरत्वाञ्च `पार्वती`शब्दस्य पूर्वनिपातः। वागर्थप्रतिपत्तये शब्दार्थयोः सम्यग्ज्ञानार्थं वन्देऽभिवादये। अत्रोपमालंकारः स्फुट एव। तथोक्तम्- `स्वतः सिद्धेन भिन्नेन संपन्नेन च धर्मतः। साम्यमन्येन वर्ण्यस्य वाच्यं चेदेकगोपमा ॥` इति। प्रायिकश्चोपमालंकारः कालिदासोक्तकाव्यादौ भूदेवताकस्य सर्वगुरोर्मगणस्य प्रयोगाच्छुभलाभः सूच्यते। तदुक्तम्-`शुभदो मो भूमिमयः` इति। वकारस्यामृतबीजत्वात्प्रचयगमनादिसिद्धिः ॥

Verse 2
क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः । तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): क्व सूर्येति॥ प्रभवत्यस्मादिति प्रभवः कारणम्। `ॠदोरप्` (पा.3।3।57)। `अकर्तरि च कारके संज्ञायाम्` (पा.3।3।19) इति साधुः। सूर्यः प्रभवो यस्य स सूर्यप्रभवो वंशः क्व? अल्पो विषयो ज्ञेयोऽर्थो यस्याः सा मे मतिः प्रज्ञा च क्व? द्वौ `क्व`शब्दौ महदन्तरं सूचयतः। सूर्यवंशमाकलयितुं न शक्नोमीत्यर्थः। तथा च तद्विषयप्रबन्धनिरूपणं तु दूरापास्तमिति भावः। तथा हि-दुस्तरं तरितुमशक्यम्। `ईषद्दुःसुषु-` (पा.3।3।126) इत्यादिना खल्प्रत्ययः। सागरं मोहादज्ञानात् उडुपेन प्लवेन। `उडुपं तु प्लवः कोलः` इत्यमरः (अ.को.1|10|11)। अथवा, -चर्मावनद्धेन पानपात्रेण। `चर्मावनद्धमुडुपं प्लवः काष्ठं करण्डवत्` इति सज्जनः। तितीर्षुस्तरितुमिच्छुः। अस्मि भवामि। तरतेः सन्नन्तादुप्रत्ययः। अल्पसाधनैरधिकारम्भोन सुकर इति भावः। इदं च वंशोत्कर्षकथं स्वप्रबन्धमहत्त्वार्थमेव। तदुक्तम्-`प्रतिपाद्यमहिम्ना च प्रबन्धो हि महत्तरः` इति ॥

Verse 3
मन्दः कवियशःप्रार्थी गमिष्याम्युपहास्यताम् । प्रांशुलभ्ये फले लोभादुद्बाहुरिव वामनः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): मन्द इति॥ किं च मन्दो मूढः। `मूढाल्पापटुनिर्भाग्या मन्दाः स्युः` इत्यमरः (अ.को.3|3|102)। तथापि कवियशःप्रार्थी। कवीनां यशः काव्यनिर्माणेन जातं तत्प्रार्थनाशीलोऽहं प्रांशुनोन्नतपुरुषेण लभ्ये प्राप्ये फले फलविषये लोभादुद्बाहुः फलग्रहणायोच्छ्रितहस्तो वामनः ह्रस्व इव। `खर्वो ह्रस्वश्च वामनः` इत्यमरः (अ.को.2|6|46)। उपहास्यता-मुपहासविषयताम्। `ऋहलोर्ण्यत्` (पा.3।1।124) इति ण्यत्प्रत्ययः। गमिष्यामि प्राप्स्यामि ॥

Verse 4
अथ वा कृतवाग्द्वारे वंशेऽस्मिन्पूर्वसूरिभिः । मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अथ वेति॥ अथ वा पक्षान्तरे। पूर्वैः सूरिभिः कविभिर्वाल्मीक्यादिभिः कृतवाग्द्वारे कृतं रामायणादिप्रबन्धरूपा या वाक् सैव द्वारं प्रवेशो यस्य तस्मिन्। अस्मिन् सूर्यप्रभवे वंशे कुले। जन्मनैकलक्षणः संतानो वंशः। वज्रेण मणिवेधकसूचीविशेषण। `वज्रं त्वस्त्त्री कुलिशशस्त्त्रयोः। मणिवेधे रत्नभेदे` इति केशवः। समुत्कीर्णे विद्धे मणौ रत्ने सूत्रस्येव मे मम गतिः संचारोऽस्ति। वर्णनीये रघुवंशे मम वाक्प्रसरोऽस्तीत्यर्थः ॥

Verse 5
सोऽहमाजन्मशुद्धानामाफलोदयकर्मणाम् । आसमुद्रक्षितीशानामानाकरथवर्त्मनाम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): सोऽहमिति॥ सोऽहम्। `रघूणामन्वयं वक्ष्ये` (1।9) इत्युत्तरेण संबन्धः। किंविधानां रघूणामित्यत्रोत्तराणि विशेषणानि योज्यानि। आ जन्मनः। जन्माभ्येत्यर्थथः। `आङ् मर्यादाभिविध्योः` (पा.2।1।13) इत्यव्ययीभावः, तस्य शुद्धानामित्यनेन सुप्सुपेति समासः। एवमुत्तरत्रापि द्रष्टव्यम्। आजन्मशुद्धानाम्। निषेकादिसर्वसंस्कारसंपन्नानामित्यर्थथः। आफलोदयम्। आफलसिद्धेः कर्म येषां ते तथोक्तास्तेषाम्। प्रारब्धान्तगामिनामित्यर्थः। आसमुद्रं क्षितेरीशानाम्। सार्वभौमाणामित्यर्थः। आनाकं रथवर्त्म येषां तेषाम्। इन्द्रसहचारिणामित्यर्थः। अत्र सर्वत्राऽऽङोऽभिविध्यर्थत्वं द्रष्टव्यम्। अन्यथा मर्यादार्थत्वे जन्मादिषु शुध्द्यभावप्रसङ्गात् ॥

Verse 6
यथाविधिहुताग्नीनां यथाकामार्चितार्थिनाम् । यथापराधदण्डानां यथाकालप्रबोधिनाम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): यथाविधीति॥ विधिमनतिक्रम्य यथाविधि। `यथासादृश्ये` (पा.2।1।7) इत्यव्ययीभावः। तथा `हुत`शब्देन सुप्सुपेति समासः। एवं `यथाकामार्जित-` इत्यादीनामपि द्रष्टव्यम्। यथाविधि हुता अग्नयो यैस्तेषाम्। यथाकाममभिलाषमनतिक्रम्यार्चितार्थिनाम्। यथापराधमपराधमनतिक्रम्य दण्ढो येषां तेषाम्। यथाकालं कालमनतिक्रम्य प्रबोधिनां प्रबोधनशीनलानाम्। चतुर्भिर्विशेषणैर्देवतायजनातिथिसत्कारदण्डधरत्वप्रजापालनसमयजागरूकत्वादीनि विवक्षितानि ॥

Verse 7
त्यागाय संभृतार्थानां सत्याय मितभाषिणाम् । यशसे विजिगीषूणां प्रजायै गृहमेधिनाम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): त्यागायेति॥ त्यागाय सत्पात्रे विनियोगस्त्यागः, तस्मै। `त्यागो विहापितं दानम्` इत्यमरः (अ.को.2|7|31)। संभृतार्थानां संचितधनानाम् । न तु दुर्व्यापाराय। सत्यायमितभाषिणां मितभाषणशीलानाम्, न तु पराभवाय। यशसे कीर्तये। `यशः कीर्तिः समज्ञा च` इत्यामरः। विजिगीषूणां विजेतुमिच्छूनाम्। न त्वर्थसंग्रहाय। प्रजायै संतानाय गृहमेधिनां दारपरिग्रहाणाम्, न तु कामोपभोगाय। अत्र `त्यागाय` इत्यादिषु `चतुर्थी तदर्थ-` (पा.2।1।36) इत्यादिना तादर्थ्ये चतुर्थी। गृहैर्दारैर्मेधन्ते संगच्छन्त इति गृहमेधिनः। `दारेष्वपि गृहाः` इत्यमरः (अ.को.2|7|31)। `जाया च गृहिणी गृहम्` इति हलायुधः। `मेधृ संगमे` इति धातोर्णिनिः। एभिर्विशेषणैः परोपकारित्वं सत्यवचनत्वं यसः परत्वं पितॄणां शुद्धत्वं च विवक्षितानि ॥

Verse 8
शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम् । वार्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): शैशव इति॥ शिशोर्भावः शैशवं बाल्यम्। `प्राणभृज्जातिवयोवचनोद्गात्र-` (पा.5।1।129) इत्यञ्प्रत्ययः। `शिशुत्वं शैशवं बाल्यम्` इत्यमरः (अ.को.2|6|40)। तस्मिन्वयसि, अभ्यस्तविद्यानाम्। एतेन ब्रह्मचर्याश्रमो विवक्षितः। यूनो भावो यौवनं तारुण्यम्। युवादित्वादण्प्रत्ययः । `तारुण्यं यौवनं समे` इत्यमरः (अ.को.2|6|40)। तंस्मिन्वयसि विषयैषिणां भोगाभिलाषिणाम्। एतेन गृहस्थाश्रमो विवक्षितः। वृद्धस्य भावो वार्धकं वृद्धत्वम्। `द्वन्द्वमनोज्ञादिभ्यश्च` (पा.5।1।133) इति वुञ्प्रत्ययः। वृद्धस्य भावो वार्धकं वृद्धत्वम्। `वार्धकं वृद्धसंघाते वृद्धत्वे वृद्धकर्मणि` इति विश्वः। संघातार्थेऽत्र `वृद्धाञ्च` इति वक्तव्यात्सामूहिको वुञ्। तस्मिन् वार्धके वयसि मुनिनां वृत्तिरिव वृत्तिर्येषां तेषाम्। एतेन वानप्रस्थाश्रमो विवक्षितः। अन्ते शरीरत्यागकाले योगेन परमात्मध्यानेन। `योगः संनहनोपायध्यानसंगतियुक्तिषु` इत्यमरः (अ.को.2|6|40)। तनुं देहं त्यजन्तीति तनुत्यजः, `कायो देहः क्लीबपुंसोः स्त्त्रियां मूर्तिस्तनुस्तनूः` इत्यमरः (अ.को.2|6|40)। तनुत्यजां देहत्यागिनाम्। `अन्येभ्योऽपि दृश्यते` (पा.3।2।178) इति क्विप्। एतेन मोक्षभावो विवक्षितः ॥

Verse 9
रघूणामन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन् । तद्गुणैः कर्णमागत्य चापलाय प्रचोदितः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): रघूणामिति॥ सोऽहं लब्धप्रवेशः। तनुवाग्विभवोऽपि स्वल्पवाणीप्रसारोऽपि सन्। तेषां रघूणां गुणैस्तद्गुणैः। आजन्मशुद्ध्यादिभिः कर्तृभिः कर्णं मम श्रोत्रमागत्य चापलाय चापलं चपलकर्माविमृश्यकरणरूपं कर्तुम्। युवादित्वात्कर्मण्यण । `क्रियार्थोपपदस्य-` (पा. 2।3।14) इत्यादिना चतुर्थीं। प्रचोदितः प्रेरितः सन्। रघूणामन्वयं तद्विषयप्रबन्धं वक्ष्ये। कुलकम् ॥

Verse 10
तं सन्तः श्रोतुमर्हन्ति सदसद्व्यक्तिहेतवः । हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ तं रघुवंशाख्यं प्रबन्धं सदसतोर्गुणदोषयोर्व्यव्यक्तेर्हेतवः कर्तारः सन्तः श्रोतुमर्हन्ति। तथा हि-हेम्नो विशुद्धिर्निर्दोषस्वरूपं श्यामिकापि लोहान्तरसंगर्गात्मको दोषोऽपि वाऽग्नौ संलक्ष्यते, नान्यत्र। तद्वदत्रापि सन्त एव गुणदोषविवेकाधिकारिणः, नान्य इति भावः ॥

Showing 1 to 10 of 1569 verses