मेघदूतम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

मेघदूतम्

Enable Parallel


Showing 1 to 10 of 111 verses
Verse 1
कश्चित्कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः शापेनास्तङ्गमितमहिमा वर्षभोग्येण भर्तुः । यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: कश्चिद्यक्षः पुण्यजनो रामगिर्याश्रमेषु चित्रकुटाचलतपोवनेषु वसतिं चक्रे व्यधात् । निजपुरीमलकामपहाय तत्र वासे कारणमाह । भर्तुः प्रभोर्धनदस्य शापेनास्तंगमितमहिमा नष्टतेजाः । कीदृशेन । कान्ताविरहगुरुणा प्रियाविरहदुःखेन । तथा वर्षभोग्यण' संवत्सरमनुभाव्येन । किमिति तेनास्य शापोऽदायीत्याह । स्वाधिकारप्रमत्तो निजव्यापारावलिप्तः । स हि जायायां व्यसनित्वात्स्वमधिकारमनपेक्षमाणो राजराजेन । तथैव तव वर्षं विरहोऽस्तु । महिमा ते नश्यत्विति शप्तः । रामाद्रिमतः स आययौ । कीदृशेष्वाश्रमेषु । जनकतनयास्नामपुण्योदकेषु सीतामज्जनपवित्रतोयेषु । यदध्यासितमर्हद्भिस्तद्धि तीर्थं प्रचक्षते । राघवसंनिधानेऽपि सीतायाः प्रशंमा शृङ्गाराश्रयत्वेन काव्यस्य चिकीर्षितत्वात् । तथा स्निग्धा अपरुषा छायाप्रधानास्तरवो येष्विति सेव्यत्वकथनम् । वर्षं भोग्यो वर्षभोग्यः । काला अत्यन्तमयोगे चेति ममासः । रामगिरिरत्र चित्रकूटः । न तु ऋष्यमूकः । तत्र सीताया वासाभावात् । सर्वत्र मन्दाक्रान्ता वृत्तम् । प्रवासविप्रलम्भो रसः ॥

Verse 2
तस्मिन्नद्रौ कति चिदबलाविप्रयुक्तः स कामी नीत्वा मासान्कनकवलयभ्रंशरिक्तप्रकोष्ठः । आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: ततोऽसौ यक्षः कतिचित्सप्ताष्टान्मासान्नीत्वातिवाह्य तस्मिन्नद्रौ चित्रकूटे मेघं ददर्शालोकितवान् । अबलाविप्रयुक्तः प्रियाविरहितः । अतश्च दौर्बल्यात्कनकलयभ्रंशेन सौवर्णकटकपातेन रिक्तप्रकोष्ठः शून्यभुजः । कामी व्यसनी । कीदृशम् । आश्लिष्टसानुमालिङ्गिताद्रिप्रस्थम् । अतश्च वप्रकीडार्थं तटाघातकेलिनिमित्तं परिणतो दत्तप्रहारो यो गजस्तत्प्रेक्षणीयं दृश्यम् । सानुलग्नेभमित्यर्थः । कदा । आषाढस्य प्रशमदिवसे समाप्तिदिने ग्रीष्मावमाने । केचित्तु शकारथ कारयोर्लिपिसारूप्यमोहात्प्रथम इत्यूचुः कथं कथमपि चैतमेवार्थ प्रतिपन्नाः । वर्षाकालस्य प्रस्तुतत्वादादिदिनमित्येतत्त्वतीव विरुद्धम् ॥

Verse 3
तस्य स्थित्वा कथमपि पुरः कौतुकाधानहेतोरन्तर्बाष्पश्चिरमनुचरो राजराजस्य दध्यौ । मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: तस्य जीमूतस्य पुरोऽग्रतः कथमपि स्थित्वा राजराजस्य वैश्रवणस्यानुचरो भृत्योऽन्तर्बाष्पोऽस्रुकण्ठः किमप्यज्ञायमानं वस्तु चिरं दध्यावचिन्तयत् । कीदृशस्य । कौतुकाधानहेतोः केतकाख्यष्पजननकारणस्य । प्रावृषि तेषामुद्भवात् । अथ जलददर्शनमात्रेण कस्मादस्यान्तर्बाष्पत्वं ध्यानं चेत्याह । सुखिनोऽप्यवियुक्तस्यापि मेघालोके वर्षाकाले चेतोऽन्यथावृक्ति सविपर्ययमनल्पोत्कण्ठासंकुलम् । किं पुनः कण्ठाश्लेषप्रणयिनि प्रियतमाख्ये जने दूरवर्तिनि सति । वर्षासमयमागतमवलोक्य स्वस्था अपि यत्रोत्कण्ठन्ते तत्र विरहिणां का कथेत्यर्थः । कण्ठाश्लेष एव प्रणयोऽर्थिता विद्यते यस्य । मेघा आलोक्यन्ते यस्मिन्निति वर्षाः । स्वरूपात्प्रच्युतावस्थमन्यथावृत्ति ॥

Verse 4
प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी जीमूतेन स्वकुशलमयीं हारयिष्यन्प्रवृत्तिम् । स प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: ततोऽसौ गुह्यकस्तस्मै मेघाय स्वागतं व्याजहार । शोभनमागतं तेऽत्स्वित्यब्रवीत् । प्रीतिप्रमुखाणि स्नेहपूर्वकाणि वचनानि यत्र स्वागते तद्यथा । भद्रं स्वस्थोऽसि । कुशलं ते सर्वत्र । विश्रम्यताम् । पवित्रीक्रियतामिदं स्थानमिति । कीदृशोऽसौ । जीमूतेन मेघेन स्वकुशलमयीमात्मश्रेयोरूपां प्रवृत्तिं वार्तां हारयिष्यन्नाययिष्यन् । यतोऽसौ दयिताया जीवितालम्बनं प्राणसंधारणमर्थयते। भर्तृकल्याणाधिगमाद्धि प्रियतमानां समाश्वामो जायते । कीदृशाय तस्मै । सरसैः कुटजकुममैः कल्पितार्घाय विहितपूजाय । अत एवासौ प्रीतः । आषाढस्य प्रशदिवस इति' य एवार्थ उक्तः स एव प्रत्यामने नभसीत्यनूदितः । नभाः श्रावणः । यदि वा जलदनिचितत्वात्प्रत्यासन्ने निकटवर्तिनीव नभसि गगन इति व्याख्येयमिति केचित् । गगम एव जीमूतो वार्तां नयति। स हि प्रीतिं कुर्वन्नाययति । प्रीत्या हारयिष्यन्निति णिजुत्पत्तिः । ततो मृद शेषे चेति' चकारात्क्रियार्थायामुपपदे लृट् । प्रवृत्तिं हारयितुं स्वागतं व्याजहारेत्यर्थः । जीमूतेनेति ह्र्यक्रोरन्यतरस्यामिति' यक्षे यथाप्राप्तं कर्तृत्वम् । तस्मा इति क्रियया यमभिप्रति म संप्रदानमिति' संप्रदानवचनम् ॥

Verse 5
धूमज्योतिःसलिलमरुतां संनिपातः क्व मेघः संदेशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः । इत्यौत्सुक्यादपरिगणयन्गुह्यकस्तं ययाचे कामार्ता हि प्रणयकृपणाश्चेतनाचेतनेषु ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: गुह्यकः पुण्यजन औत्सुक्यादुत्कण्ठावशादित्येवमपरिगणयन्नविमृशंस्तं मेघं ययाचे प्रार्थयत । किमित्याह । क्व मेघः क्व संदेशार्था वार्त्तावस्तूनि । मेघस्तावद्धूमज्योतिःसलिलमरतां समुदायः । धूमादिमयान्यचेतनानि ह्यभ्राणि । संदेशार्थाः पटुकरणैश्चतुरेन्द्रियैः प्राणिभिर्मानवैः प्रापणीया नेतुं शक्याः । न तु निर्बुद्धिभिः । कथं तर्ह्येतदसौ न विमृष्टवानित्याह । यस्माद्ये कामार्ता मदनवागुरापीडितास्ते चेतनाचेतनेषु सिंहपादपादिषु प्रणयकृपणाः प्रार्थनादीना भवन्ति । न हि ते विषयमविषयं वा विवेक्तुं समर्था इति भङ्ग्या कविः स्वदोषं निरस्यति ॥

Verse 6
जातं वंशे भुवनविदिते पुष्करावर्तकानां जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः । तेनार्थित्वं त्वयि विधिवशाद्दूरबन्धुर्गतोऽहं याच्ञा वन्ध्या वरमधिगुणे नाधमे लब्धकामा ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: यतस्त्वामहमेवंविधं वेदातोऽहं प्रार्थित्वं प्राप्तः । कीदृशम् । पुष्करावर्तकानां प्रलयमेघानां वंशे कुले जातमिति कुलीनत्वोक्तिः । तथा मघोन इन्द्रस्य प्रकृतिपुरुषममात्यपुरुषमिति प्रभावकथनम् । प्रकृतिषु ह्यमात्याः प्रधानभूताः । इन्द्रम्य च मेघा एव प्रियकराः । प्रकृतिषु प्रकृतिश्चासाविति वा पुरुषः प्रकृतिपुरुषः । स्वाम्यमात्यौ च राष्ट्रं च कोशो दुर्गं बलं सुहृत् । सप्त प्रकृतयो ह्येताः सप्ताङ्गं राज्यमुच्यते ॥ कामरूपं मनोज्ञं म्वेच्छारूपं वा । बह्वरूपत्वान्मेघानाम् । तदेव वक्ष्यति । पुष्पमेघीकृतात्मेति । अत एव विधिवशादहं दूरबन्धुरसंनिहितदारस्त्वय्यर्थित्वं गतो याच्ञाकरः संपन्नः । यद्येवंगुणयुक्तोऽहं तर्हि किमित्येतावता मय्यर्थनेत्याह । यस्मादधिगुणे कुलादिगुणोत्कृष्टे पुरुषे याच्ञा वन्ध्या निष्फला वरं भद्रम् । अलज्जावहत्वात् । न त्वधमे निकृष्टे लब्धकामा प्राप्तेष्टार्थापीति । भिन्नलिङ्गत्वेऽपि सामान्योपक्रमात्सामानाधिकरण्यम् । यथा। वरं कृपशताद्वापीत्यादौ' ॥

Verse 7
संतप्तानां त्वमसि शरणं तत्पयोद प्रियायाः संदेशं मे हर धनपतिक्रोधविश्लेषितस्य । गन्तव्या ते वसतिरलका नाम यक्षेश्वराणां बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: हे पयोद संतप्तानामम्बुदानेन त्वं यदा शरणं त्राणं भवसि तन्ममापि विरहसंतप्तस्य संदेशं वार्तां प्रियायाः सकाशं हर नय प्रापय । धनपतिक्रोधविश्लेषितस्येति संतप्तत्वप्रतिपादनम् । क्व मया गन्तव्यमित्याह । गुह्यकाधिपानां वसतिरलका नाम पुरी ते गन्तव्या यातव्या । न च सा दुर्ज्ञानेत्याह' । बाह्योद्याने कैलासोपवने । बाह्यं च तदुदवानं च । तत्र स्थितो यो हरस्तस्य शिरश्चन्द्रिकया धौतानि हर्म्याणि यत्र सा दिनेऽपि विक्षालितसौधा । त इति कृत्यानां कर्तरि वा ॥

Verse 8
त्वामारूढं पवनपदवीमुद्गृहीतालकान्ताः प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययादाश्वसन्त्यः । कः संनद्धे विरहविधुरां त्वय्युपेक्षेत जायां न स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: वातमार्गं खमुद्गतं भवन्तं पान्थाङ्गना विरहिण्योऽलकानुत्क्षिप्य द्रक्ष्यन्ति । यतः प्रत्ययान्निश्चयोत्पादनादाश्वसन्त्यः । अयं जीमूत उदितः । अत्रावश्यमस्मत्प्राणेश्वरैरागन्तव्यमिति । तद्दर्शनमात्रे कस्मादाशा कृतेत्याह । त्वयि संनद्धे कृतोद्योगे सति वियोगाकुलां प्रेयसीं क उपेक्षेत विरहयेत् । यद्यन्योऽपि जनस्तादृशो न स्यात् । कीदृशः । मादृशः पराधीनवृत्तिः । अथ वा कोऽन्यो जनो जायामुपेक्षेतेत्यत्र सबन्धः । स्वाधीना हि कान्ताभिः सह रममाणाः प्रावृषमतिवाहयन्ति । संनद्धादयः शब्दाः एवमादावोपचारिकाः ॥

Verse 9
आपृच्छस्व प्रियसखममुं तुङ्गमालिङ्ग्य शैलं वन्द्यैः पुंसां रघुपतिपदैरङ्कितं मेखलासु । काले काले भवति भवता यस्य संयोगमेत्य स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो बाष्पमुष्णम् ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: अमुं शैलं चित्रकूटमालिङ्ग्यापृच्छस्व सोत्कण्ठं [अस्पष्टं मुद्रणम्]ज्योककुरु । यतः प्रियसखमिष्टमित्रम् । मेघानां ह्यद्रयः सुहृदः । ततस्तेषामुदयात् । सखा च गमनकाले ज्योक्क्रियते । कीदृशममुम् । तुङ्गमुन्नतम् । तथा सर्वजनपूज्यैः रामपदै रामपादैर्मेखलासु नितम्बभागेष्वङ्कितं मुद्रितमिति पावनत्वोक्तिः । सखिधर्ममाह | यस्याद्रेः काले काले सर्वस्मिन्समागमममये त्वया सह संयोगमेत्य चिरविरहजमुष्णं बाष्पमूष्माणं त्यजतः स्नेहव्यक्तिर्भवति । यः स्निह्यतीत्यर्थः । पर्वता हि जलदवृष्ट्या स्निग्धा भवन्ति वाष्पं च मुञ्चन्ति । एतदेव महत्त्वं यच्चिरेण सख्यौ दृष्टे बाष्पस्नेहौ जायेते । आपृच्छस्वेत्याङि नुप्रच्छ्योरित्यात्मनेपदम् । प्रियश्चासौ सखा चेति प्रियसखः । राजाहःसखिभ्यष्टच् । संयोगमेत्येति बाष्पमोक्षापेक्षं पौर्वकाख्यं स्नेहक्रियापेक्षं वा ॥

Verse 10
मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वां वामश्चायं नदति मधुरं चातकस्तोयगृध्नुः । गर्भाधानस्थिरपरिचया नूनमाबद्धमालाः सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: यथेदं शुभमीक्ष्यते तथा निश्चितं मे च मुन्दरं त्वामाकाशे बलाकाः सेविष्यन्ते श्रयिष्यन्ते । किमितीत्याह । हितो वातो यथा त्वां मन्दं मन्दं प्रेरयति यथा चायं चातको मयूरो मधुरं कूजति । वामो वामपार्श्वस्थो वल्गुवादी वा। तोयगृधुर्जलमभिलाषुकः । वार्षिकलिङ्गदर्शनाद्बलाका अप्यायास्यन्तीति प्रावृड्धर्मोऽयम् । कीदृक्ष्यस्ताः । गर्भाधानेन स्थिरः परिचयो यासां ताः । मेघगर्जितेन हि ताः सगर्भा भवन्तीति वार्त्ता । आबद्धमाला रचितपङ्क्त्यः । मन्दं मन्दमित्याधिक्ये द्वित्वम् ॥

Showing 1 to 10 of 111 verses