ॐ नमः श्री-शारदा-गणपति-गुरुभ्यः । महा-कविभ्यो नमः ।
ब्रह्मा रुद्रः कुमारो हरि-वरुण-यमा वह्निरिन्द्रः कुबेरश्चन्द्रादित्यौ सरस्वत्य्-उदधि-युग-नगा वायुरुर्वी-भुजङ्गाः । सिद्धा नद्योऽश्विनौ श्रीर्दितिरदिति-सुता मातरश्चण्डिकाद्या वेदास्तीर्थानि यक्षा गण-वसु-मुनयः पान्तु नित्यं ग्रहाश्च ॥
Metre: स्रग्धरा
मनवे वाचस्पतये शुक्राय पराशराय स-सुताय । चाणक्याय च विदुषे नमोऽस्तु नय-शास्त्र-कर्तृभ्यः ॥
Metre: आर्या (१२, १८, १२, १५)
सकलार्थ-शास्त्र-सारं जगति समालोक्य विष्णुशर्मेदम् । तन्त्रैः पञ्चभिरेतच्चकार सुमनोहरं शास्त्रम् ॥
Metre: आर्या (१२, १८, १२, १५)
तद्यथानुश्रूयते । अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तत्र सकलार्थि-सार्थ-कल्प-द्रुमः प्रवर-नृप-मुकुट-मणिमजरीचयचर्चितचरण-युगलः सकल-कल्प-पारङ्गतोऽमरशक्तिर्नाम राजा बभूव । तस्य त्रयः पुत्राः परम-दुर्मेधसो वसुशक्तिरुग्रशक्तिरनेकशक्तिश्चेति नामानो बभूवुः ।
अथ राजा तान्शास्त्र-विमुखानालोक्य सचिवानाहूय प्रोवाच-भोः ज्ञातमेतद्भवद्भिर्यन्ममैते त्रयोऽपि पुत्राः शास्त्र-विमुखा विवेक-हीनाश्च । तदेतान्पश्यतो मे महदपि राज्यं न सौख्यमावहति । अथवा साध्विदमुच्यते—
अजात-मृत-मूर्खेभ्यो मृताजातौ सुतौ वरम् । यतस्तौ स्वल्प-दुःखाय यावज्-जीवं जडो दहेत् ॥
Metre: अनुष्टुप्
वरं गर्भ-स्रवो वरम् ऋतुषु नैवाभिगमनं वरं जातः प्रेतो वरमपि च कन्यैव जनिता । वरं बन्ध्या भार्या वरमपि च गर्भेषु वसतिर्न चाविदग्धान्रूप-द्रविण-गुण-युक्तोऽपि तनयः ॥
Metre: शिखरिणी
किं तया क्रियते धेन्वा या न सूते न दुग्धदा । कोऽर्थः पुत्रेण जातेन यो न विद्वान्न भक्तिमान् ॥
Metre: अनुष्टुप्
तदेतेषां यथा बुद्धि-प्रबोधनं भवति तथा कोऽप्युपायोऽनुष्ठीयताम् । अत्र च मद्-दत्तां वृत्तिं भुञ्जानानां पण्डितानां पञ्चशती तिष्ठति । ततो यथा मम मनोरथाः सिद्धिं यान्ति तथानुष्ठीयतामिति ।