शतकत्रयम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शतकत्रयम्

Enable Parallel


Showing 1 to 10 of 324 verses
Verse 1
दिक्-कालाद्यनवच्छिन्नानन्त-चिन्-मात्र-मूर्तये । स्वानुभूत्य्-एक-मानाय नमः शान्ताय तेजसे ॥
Metre: अनुष्टुप्

Verse 2
बोद्धारो मत्सर-ग्रस्ताः प्रभवः स्मय-दूषिताः ।अबोधोपहताः चान्ये जीर्णमङ्गे सुभाषितम् ॥
Metre: अनुष्टुप्

Verse 3
अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः । ज्ञान-लव-दुर्विदग्धं ब्रह्मापि तं नरं न रञ्जयति ॥
Metre: उद्गीति

Verse 4
प्रसह्य मणिमुद्धरेन्मकर-वक्त्र-दंष्ट्रान्तरात्समुद्रमपि सन्तरेत्प्रचलदूर्मि-मालाकुलम् । भुजङ्गमपि कोपितं शिरसि पुष्पवद्धारयेत्न तु प्रतिनिविष्ट-मूर्ख-जन-चित्तमाराधयेत् ॥
Metre: पृथ्वी

Verse 5
लभेत सिकतासु तैलमपि यत्नतः पीडयन्पिबेच्च मृग-तृष्णिकासु सलिलं पिपासार्दितः । कदाचिदपि पर्यटन् शशविषाणमासादयेन्नतु प्रतिनिविष्ट-मूर्ख-जन-चित्तमाराधयेत् ॥
Metre: पृथ्वी

Verse 6
व्यालं बाल-मृणाल-तन्तुभिरसौ रोद्धुं समुज्जृम्भते छेत्तुं वज्र-मणिं शिरीष-कुसुम-प्रान्तेन सन्नह्यति । माधुर्यं मधु-बिन्दुना रचयितुं क्षारामुधेरीहते नेतुं वाञ्छन्ति यः खलान्पथि सतां सूक्तैः सुधा-स्यन्दिभिः ॥
Metre: शार्दूलविक्रीडितम्

Verse 7
स्वायत्तमेकान्त-गुणं विधात्रा विनिर्मितं छादनमज्ञतायाः । विशेषतः सर्व-विदां समाजे विभूषणं मौनमपण्डितानाम् ॥
Metre: उपेन्द्रवज्रा

Verse 8
यदा किञ्चिज्-ज्ञोऽहं द्विप इव मदान्धः समभवं तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः । यदा किञ्चित्किञ्चिद्बुधजन-सकाशादवगतं तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः ॥
Metre: शिखरिणी

Verse 9
कृमि-कुल-चितं लाला-क्लिन्नं विगन्धि-जुगुप्सितं निरुपम-रसं प्रीत्या खादन्नरास्थि निरामिषम् । सुरपतिमपि श्वा पार्श्वस्थं विलोक्य न शङ्कते न हि गणयति क्षुद्रो जन्तुः परिग्रह-फल्गुताम् ॥
Metre: हरिणी

Verse 10
शिरः शार्वं स्वर्गात्पशुपति-शिरस्तः क्षितिधरं म्हीध्रादुत्तुङ्गादवनिमवनेश्चापि जलधिम् । अधोऽधो गङ्गेयं पदमुपगता स्तोकमथवाविवेक-भ्रष्टानां भवति विनिपातः शतमुखः ॥
Metre: शिखरिणी

Showing 1 to 10 of 324 verses