कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 1 to 10 of 613 verses
Verse 1
अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः । पूर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अस्तीति । उत्तरस्यां दिशि । अनेनास्य देवभूमित्वं सूच्यते । देवतात्माधिष्ठाता यस्य सः । एतेनास्य वक्ष्यमाणमेनकापरिणयपार्वतीजननादिचेतनव्यवहारयोग्यत्वसिद्धिः। हिमस्यालयः स्थानमिति हिमालयो नाम हिमालय इति प्रसिद्धः । अधिको राजाधिराजः । `राजाहःसखिभ्यष्टच्` । न गच्छन्तीति नगा अचलास्तेषामधिराजो नगाधिराजोऽस्ति । कथंभूतः । पुर्वापरौ प्राच्यपश्चिमौ तोयनिधी समुद्रौ वगाह्य प्रविश्य । अतएव पृथिव्या भूमेर्मानं हस्तादिना परिच्छेदः । भावे ल्युट् । तस्य दण्डः । यद्वा मीयतेऽनेनेति मानम् । करणे ल्युट् । स चासौ दण्डश्च स इव स्थितः । आयामपरिच्छेदकदण्ड इव स्थित इत्यर्थः । पूर्वापरसागरावगाहित्वं चास्य हिमालयस्यास्त्येव । उक्तं च ब्रह्माण्डपुराणे - `कैलासो हिमवांश्चैव दक्षिणे वर्षवर्वतौ । पूर्वपश्चिमगावेतवर्णवान्तरुपस्थितौ` ॥ अत्र हिमाचलस्योभयाब्धिव्याप्तसाम्यान्मानदण्डत्वेनोत्प्रेक्षणादुत्प्रेक्षाऽलंकारः । `प्रकृतेऽप्रकृतगुणक्रियादिसम्बन्धादप्रकृतत्वेन प्रकृतस्य संभावनमुत्प्रेक्षा` इत्यलंकारसर्वस्वकारः । अस्मिन्सर्गे प्रायेण वृत्तमुपजातिः। क्वचिदिन्द्रवज्रोपेन्द्रवज्रे च । तल्लक्षणं तु - `स्यादिन्द्रवज्रा यदि तौ जगौ गः`। `उपेन्द्रवज्राजतजास्ततो गौ`। अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः ॥ इति
अन्वयः: उत्तरस्यां दिशि देवतात्मा हिमालयः नाम नगाधिराजः पूर्वापरौ तोयनिधी वगाह्य पृथिव्याः मानदण्डः इव स्थितः अस्ति ।

Verse 2
यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे । भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां दुदुहुर्धरित्रीम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): यमिति ॥ सर्वे च ते शैलाश्च सर्वशैलाः । `पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन` (पा.2|1|49) इति समासः । यं हिमालयं वत्सं परिकल्प्य विधाय दोहदक्षे दोहनसमर्थे मेरौ दोग्धरि स्थिते सति । `यस्य च भावेन भावलक्षणम्` (पा.2|3|37) इति सप्तमी । पृथूपदिष्टां पृथुना वैन्येनोपदिष्टामीदृक्तया प्रदर्शितां धरित्रीम् । गोरुपधरामिति शेषः ।`गौर्भूत्वा तु वसुन्धरा` इति विष्णुपुराणात् । `अकथितं च` (पा.1|4|51) इति कर्मत्वम् । भास्वन्ति च भास्वत्त्यश्च भास्वन्ति द्युतिमन्ति । ओषधिविशेषणं चैतत् । `नपुंसकमनपुंसकेन-` इत्यादिना नपुंसकैकशेषः । रत्नानि मणीञ्जातिश्रेष्ठवस्तूनि च । `रत्नं श्रेष्ठे मणावपि` इति विश्वः । `जातौ जातौ यदुत्कृष्टं तद्रत्नमिति कथ्यते` इति यादवः । महौषधीश्च संजीवनीप्रभृतीश्च क्षीरत्वेन परिणता इति शेषः । `ताः क्षीरपरिणामिनीः` इति विष्णुपुराणात् । दुदुहुः । `दुहियाच् -` इत्यादिना द्विकर्मकत्वम् । अत्र प्रयोजकत्वेऽपि शैलानां `पञ्चभिर्हलैः कर्षति ग्रामं ग्रामणीः` इतिवत्तत्समर्थाचरणात्कर्तृत्वेन व्यपदेशः । दुहेः स्वरितेत्त्वेऽप्यकर्त्रभिप्रायविवक्षायां परस्मैपदम् । अत्रार्थे प्रमाणम्- गौर्भूमिरचलाः सर्वे कर्तारोऽत्र पयांसि च । ओषध्यश्चैव भास्वन्ति रत्नानि विविधानि च ॥ वत्सश्च हिमवानासीद्दोग्धा मेरुर्महागिरिः ॥ इति । एतेन वत्सस्य मातुः प्रेमास्पदत्वादस्य सारग्राहित्वं गम्यते । तथा चास्य नगस्य रत्नबिशेषभोक्तृत्वान्नगाधिराजत्वं युक्तमिति भावः । अत्र हिमवद्वर्णनस्य प्रकृतत्वात्तद्गतौषधिरत्नानां द्वयानामपि प्रकृतत्त्वात्तेषां दोहनक्रियारूपसमानधर्मसंबन्धादौपम्यस्य गम्यत्वात्केवलप्राकरणिकविषयस्तुल्ययोगिता नामालंकारः । तदुक्तम् - `प्रस्तुतानां तथान्येषां केवलं तुल्यधर्मतः । औपम्यं गम्यते यत्र सा मता तुल्ययोगिता ॥ ` न चात्र रूपकपरिणामाद्यलंकारशङ्का कार्या तेषामारोपहेतुत्वात् । हिमहेमाचलादिषु वत्सत्वदोग्धृत्वादीनामागमसिद्धत्वेनानारोप्यमाणत्वादिति
अन्वयः: सर्वशैला यं वत्सं परिकल्प्य दोहदक्षे मेरौ दोग्धरि स्थिते (सति)भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां धरित्रीं दुदुहुः ।

Verse 3
अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् । एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अनन्तेति ॥ प्रभवत्यस्मादिति प्रभवः कारणम् । अनन्तानामपरिमितानां रत्नानां श्रेष्ठवस्तूनां प्रभवस्य यस्य हिमाद्रेर्हिमम् । कर्तृ । सुभगस्य भावः सौभाग्यम् । `हृद्भगसिन्ध्वन्ते पूर्वपदस्य च ` इत्युभयपदवृध्दिः । तद्विलुम्पतीति सौभाग्यविलोपि सौन्दर्यविघातकं न जातं नाभूत् । तथाहि । एको दोषो गुणसंनिपात इन्दोः किरणेष्वङ्क इव निमज्जति । अन्तर्लीयत इत्यर्थः । नहि स्वल्पो दोषोऽमितगुणाभिभावक एव किंतु कश्चिदिन्दुकलङ्कादिवद्गुणैरभिभूयते । अन्यथा सर्वरम्यवस्तुहानिप्रसङ्गादिति भावः । अत्रोपमानुप्राणितोऽर्थान्तरन्यासालंकारः । तल्लक्षणं तु-`ज्ञेयः सोऽर्थान्तरन्यासो वस्तु प्रस्तुत्य किंचन । तत्साधनसमर्थस्य न्यासो योऽन्यस्य वस्तुनः ॥ ` इति दण्डी
अन्वयः: अनन्तरत्नप्रभवस्य यस्य हिमं सौभाग्यविलोपि न जातम् । हि एको दोषो गुणसन्निपाते इन्दोः किरणेषु अङ्क इव निमज्जति ।

Verse 4
यश्चाप्सरोविभ्रममण्डनानां संपादयित्रीं शिखरैर्बिभर्ति । बलाहकच्छेदविभक्तरागामकालसंध्यामिव धातुमत्ताम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): यश्चेति । किंचेति चकारार्थः । यो हिमाद्रिरप्सरसां विभ्रममण्डनानि विलासालंकरणानि । अथवा `विभ्रमो विपरीतन्यासः । विभ्रमस्त्वरयाकाले भूषास्थानविपर्यये` इति दशरुपकात् । तेन मण्डनानि तेषां संपादयित्रीम् । एतध्दातुरागदर्शिन्योऽप्सरसः संध्याभ्रमेण प्रसाधनाय त्वरयन्त इति भावः । तथात्वे भ्रान्तिमदलंकारो व्यज्यते । `कर्तृकर्मणोः कृति` (पा.2|3|65) इति कर्मणि षष्ठी । वारीणां वाहका बलाहकाः पृषोदरादित्वात्साधुः । तेषां छेदेषु खण्डेषु विभक्तः संक्रमितो रागो यया ताम् । एतेनाद्रेरभ्रंकषत्वं गम्यते । इदं विशेषणद्वयं संध्यायामपि योज्यम् । धातवः सिन्दूरगैरिकादयोऽस्य सन्तीति धातुमान् । नित्ययोगे मतुप् । तस्य भावो धातुमत्ता ताम् । धातुयोगित्वमिति संबन्धोऽपि वाच्यार्थः । `समासकृत्तध्दितेषु संबन्धाभिधानं भावप्रत्ययेन ` इति वचनात् । लक्षणया नित्यानुषङ्गिकधातुमित्यर्थः । अकालसंध्यामिवानियतकालप्राप्तसन्ध्यामिव शिखरैर्बिभर्ति धत्ते । अत्र संध्याशब्दस्य जातिवाचित्वाज्जात्युत्प्रेक्षा
अन्वयः: च यः अप्सरोविभ्रममण्डनानां संपादयित्रीं बलाहकच्छेदविभक्तरागां धातुमत्ताम् अकालसन्ध्याम् इव शिशरैः बिभर्ति ।

Verse 5
आमेखलं संचरतां घनानां च्छायामधःसानुगतां निषेव्य । उद्वेजिता वृष्टिभिराश्रयन्ते शृङ्गाणि यस्यातपवन्ति सिद्धाः ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): आमेखलमिति ॥ सिद्धा अणिमादिसिद्धा देवयोनिविशेषाश्च । `पिशाचो गुह्यकः सिध्दो भूतोऽमी देवयोनयः` इत्यमरः (अ.को.1|1|11) । आमेखलाभ्य आमेखलं नितम्बपर्यन्तम् । `मेखला खण्डबन्धे स्यात्काञ्चीशैलनितम्बयोः` इति विश्वः । `आङ्मर्यादाभिविध्योः` इत्यव्ययीभावः । संचरतां घनानां मेधानामधः सानूनि मेधमण्डलादधस्तटानि गतां प्रात्पाम् । `द्वितीया श्रितातोतपतितगतात्यस्तप्राप्तापन्नैः` इति समासः । छायामनातपम् । `छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः` इत्यमरः (अ.को.3|3|166) । निषेव्यवृष्टिभिरुद्वेजिताः = क्लेशिताः सन्तः । `उद्वेगस्तिमिते क्लेशे भये मन्थरगामिनि` इति शर्ब्दाणवः । यस्य हिमाद्रेरातपवन्ति सातपानि श्रृङ्गाण्याश्रयन्ते । आश्रित्य स्थिता इत्यर्थः । अतिमेघमण्डलमस्यौन्नत्यमिति भावः
अन्वयः: सिध्दा आमेखलं सञ्चरतां घनानाम् अधः सानुगतां छायां निषेव्य वृष्टिभिः उद्वेजिताः (सन्तः)यस्य आतपवन्ति श्रृङ्गाणि आश्रयन्ते ।

Verse 6
पदं तुषारस्रुतिधौतरक्तं यस्मिन्नदृष्ट्वापि हतद्विपानाम् । विदन्ति मार्गं नखरन्ध्रमुक्तैर्मुक्ताफलैः केसरिणां किराताः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): पदमिति ॥ यस्मिन्नद्रौ किरातास्तुषारस्त्रुतिभिर्हिमनिस्यन्दैर्धौतं क्षालितं रक्तं शोणितं यस्य तत्तथोक्तम् अतो दुर्ग्रहमिति भावः । हता द्विपा गजा यैस्तेषां हतद्विपानां केसरिणां सिंहानां पदं पादप्रक्षेपस्थानमदृष्ट्वापि नखरन्ध्रैर्नखद्रोणिभिर्मुक्तैर्मुक्ताफलैर्मार्गं विदन्ति जानान्ति । अत्र व्याधाः सिंहघातिनो गजेन्द्राश्च मुक्ताकरा इति भावः । `करीन्द्रजीमूतवराहशङ्खमत्स्याहिशुक्त्युद्भववेणुजानि । मुक्ताफलानि प्रथितानि लोके तेषां तु शुक्त्युद्भवमेव भूरि`॥ १.६ ॥
अन्वयः: यस्मिन् किराताः तुषारस्त्रुतिधौतरक्तं हतद्विपानां केसरिणां पदम् अदृष्ट्वा अपि नखरन्ध्रमुक्तैः मुक्ताफलैः मार्गं विदन्ति ।

Verse 7
न्यस्ताक्षरा धातुरसेन यत्र भूर्जत्वचः कुञ्जरबिन्दुशोणाः । व्रजन्ति विद्याधरसुन्दरीणामनङ्गलेखक्रिययोपयोगम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): न्यस्ताक्षरा इति ॥ यत्र हिमाद्रौ धातुरसेन सिन्दूरादिद्रवेण `श्रृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः` इत्यमरः । न्यस्ताक्षरा लिखितवर्णा अत एव कुञ्जरस्य ये बिन्दवः काये वयोविशेषभाविनः पद्मकाख्याः । पद्मकं बिन्दुजालकम्` इत्यमरः । त इव शोणा रक्तवर्णाः । लिखितभागेष्विति शेषः । भूर्जत्वचो भूर्जपत्रवल्कलानि । `भूर्जपपत्रो भुजो भूर्जो मृदुत्वक्चार्मिका अपि` इति यादवः । विद्याधरसुन्दरीणाम् । लिख्यन्ते येषु ते लेखाः पत्रिकाः । अनङ्गस्य लेखास्तेषां क्रियया । कामव्यञ्जकलेखकरणेनेत्यर्थः । उपयोगमुपकारं व्रजन्ति । दिव्याङ्गनाविहारयोग्योऽयं शैल इति भावः
अन्वयः: यत्र धातुरसेन न्यस्ताऽक्षराः कुञ्जरबिन्दुशोणाः भूर्जत्वचः विद्याधरसुन्दरीणाम् अनङ्गलेखक्रियया उपयोगं व्रजन्ति ।

Verse 8
यः पूरयन्कीचकरन्ध्रभागान्दरीमुखोत्थेन समीरणेन । उद्गास्यतामिच्छति किंनराणां तानप्रदायित्वमिवोपगन्तुम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): य इति ॥ यो हिमाद्रिः दरी गुहा सैव मुखं तस्मादुत्थेनोत्‌पन्नेन । `आतश्चोपसर्गे` (पा.3|1|136) इति कप्रत्ययः । समीरणेन वायुना कीचका वेणुविशेषाः । `वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः` इत्यमरः (अ.को.2|4|161) । तेषां रन्ध्रभागाञ्छिद्रप्रदेशान्पूरयन्धमयन् । वांशिकोऽपि वंशारन्ध्राणि मुखमारुतेन पूरयतीति प्रसिध्दिः । उद्गास्यतां देवयोनित्वादुच्चैर्गान्धारग्रामेण गानं करिष्यताम् । उक्तं च नारदेन- `षङ्जमध्यमनामानौ ग्रामौ गायन्ति मानवाः । न तु गान्धारनामानं स लभ्यो देवयोनिभिः ।` इति किंन्नराणां देवगायकानां तानप्रदायित्वम् । तानो नाम स्वरान्तरप्रवर्तको रागस्थितिप्रवृत्त्यादिहेतुरंशापरनामा वंशवाद्यसाध्यः प्रधानभूतः स्वरविशेषः `तानस्त्वंशस्वरो मतः`इत्यभिनवगुत्पः । `गाता यं यं स्वरे गच्छेत्तं तं वंशेन तानयेत्` इति भरतः । तत्प्रदानशीलत्वं तानप्रदायित्वं वांशिकत्वमुपगन्तुमिच्छतीवेत्युप्रेक्षा । सा च दरीमुखोत्थेनेत्येकदेशविवर्तिरुपकोज्जीविता । मुखसाध्यत्वात्तानप्रदायित्वस्य । यत्रावयवरुपणादवयविरुपणं गम्यते तदेकदेशविवर्ति रुपकम् । गम्यते चात्रावयविनः पुंसो रुपणं यच्छब्दनिर्दिष्टे हिमाद्रावित्यलं बहुना
अन्वयः: यो दरीमुखोत्थेन समीरणेन कीचकरन्ध्रभागान् पूरयन् उद्गास्यतां किन्नराणां तानप्रदायित्वम् उपगन्तुम् इच्छति इव ।

Verse 9
कपोलकण्डूः करिभिर्विनेतुं विघट्टितानां सरलद्रुमाणाम् । यत्र स्रुतक्षीरतया प्रसूतः सानूनि गन्धः सुरभीकरोति ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): कपोलेति ॥ यत्र हिमाद्रौ करिभिर्गजैः । कपोलकण्डूर्गण्डस्थलकण्डूर्विनेतुमपनेतुं विघट्टितानां घर्षितानां सरलद्रुमाणां संबन्धिस्नुतानि करिकपोलघर्षणात्क्षरितानि क्षीराणि येषां तेषां भावस्तत्ता तया हेतुना प्रसूत उत्पन्नो गन्धः सानूनि सुरभीकरोति । एतेनास्य गजाकरत्वं गम्यते, तथा च गजायुर्वेदे - हिमवद्विन्ध्यमलया गजानां प्रभवा नगाः । इति
अन्वयः: यत्र करिभिः कपोलकण्डूः विनेतुं विघट्टितानां सरलद्रुमाणां स्नुतक्षीरतया प्रसूतो गन्धः सानूनि सुरभीकरोति ।

Verse 10
वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः । भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीपाः ॥
Metre: उपेन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): वनेचराणामिति ॥ यत्र हिमाद्रौ रजन्यां दर्यः कन्दरा एव गृहास्तेषामुत्सङ्गेष्वभ्यन्तरेषु निषक्ताः संक्रान्ता भासो यासां ता ओषधयस्तृणज्योतींषि । `अग्नावोषधीषु च तेजो निधाय रविरस्तं याति` इत्यागमः । वनितानां सखायो वनितासखाः । `राजाहःसखिभ्यष्टच्` । तेषाम् । रममाणानामित्यर्थः । वने चरन्तीति वनेचराः किराताः । `चरेष्टः` (पा.3|2|16) इति टप्रत्ययः । `तत्पुरुषे कृति बहुलम्` (पा.6|3|14) इत्यलुक् । तेषां वनेचराणाम् । अतैलपूरः । अनपेक्षिततैलसेका इत्यर्थः । सुरतकर्मणि प्रदीपा भवन्ति । अत्रौषधीष्वारोप्यमाणस्य प्रदीपत्वस्य प्रकृतोपयोगित्वात्परिणामालंकारः । तदुक्तम्- `आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः` इति । तथा प्रदीपकारणतैलपूरणनिषेधादकारणकार्येत्पत्तिर्लक्षणा विभावना चेत्युभयोः संसृष्टिः
अन्वयः: यत्र रजन्यां दरीगृहोत्सङ्गनिषक्तभास ओषधयः वनितासखानां वनेचराणाम् अतैलपूराः सुरतप्रदीपा भवन्ति ।

Showing 1 to 10 of 613 verses