निपीय यस्य क्षितिरक्षिणः कथाः तथाद्रियन्ते न बुधाः सुधामपि । नलः सितच्छत्रितकीर्तिमण्डलः स राशिरासीन्महसां महोज्ज्वलः ॥
Metre: वंशस्थम्
रसैः कथा यस्य सुधावधीरिणी नलः स भूजानिरभूद्गुणाश्रयः । सुवर्णदण्डैकसितातपत्रितज्वलत्प्रतापावलिकीर्तिमण्डलः ॥
Metre: वंशस्थम्
पवित्रमत्रातनुते जगद्युगे स्मृता रसक्षालनयेव यत्कथा । कथं न सा मद्गिरमाविलामपि स्वसेविनीमेव पवित्रयिष्यति ॥
Metre: वंशस्थम्
अधीतिबोधाचरणप्रचारणैः दशाश्चतस्रः प्रणयन्नुपाधिभिः । चतुर्दशत्वं कृतवान् कुतः स्वयं न वेद्मि विद्यासु चतुर्दशस्वयम् ॥
Metre: वंशस्थम्
अमुष्य विद्या रसनाग्रनर्तकी त्रयीव नीताङ्गगुणेन विस्तरम् । अगाहताष्टादशतां जिगीषया नवद्वयद्वीपपृथग्जयश्रियाम् ॥
Metre: वंशस्थम्
दिगीशवृन्दांशविभूतिरीशिता दिशां सकामप्रसभावरोधिनीम् । बभार शास्त्राणि दृशं द्वयाधिकां निजत्रिनेत्रावतरत्वबोधिकाम् ॥
Metre: वंशस्थम्
पदैश्चतुर्भिः सुकृते स्थिरीकृते कृतेऽमुना के न तपः प्रपेदिरे । भुवं यदेकाङ्घ्रिकनिष्ठया स्पृशन् दधावधर्मोऽपि कृशस्तपस्विताम् ॥
Metre: वंशस्थम्
यदस्य यात्रासु बलोद्धतं रजः स्फुरत्प्रतापानलघूममञ्जिम । तदेव गत्वा पतितं सुधाम्बुधौ दधाति पङ्कीभवदङ्कतां विधौ ॥
Metre: वंशस्थम्
स्फुरद्धनुर्निस्वनतद्धनाशुगप्रगल्भवृष्टिव्ययितस्य संगरे । निजस्य तेजःशिखिनः परश्शता वितेनुरिङ्गालमिवायशः परे ॥
Metre: वंशस्थम्
अनल्पदग्धारिपुरानलोज्ज्वलैः निजप्रतापैर्वलयं ज्वलद्भुवः । प्रदक्षिणीकृत्य जयाय सृष्टया रराज नीराजनया स राजघः ॥
Metre: वंशस्थम्