यत्रैकयालीकनलीकृताली कण्ठे मृषाभीमभवीभवन्त्या । तदृक्पथे दौहदिकोपनीता शालीनमाधायि मधूकमाला ॥
Metre: उपजातिः
चन्द्राभमाभ्रं तिलकं दधाना तद्वन्निजास्येन्दुकृतानुबिम्बम् । सखीमुखे चन्द्रसमे ससर्ज चन्द्रानवस्थामिव कापि यत्र ॥
Metre: उपजातिः
दलोदरे काञ्चनकेतकस्य क्षणान्मसीभावुकवर्णलेखम् । तस्यैव यत्र स्वमनङ्गलेखं लिलेख भैमी नखलेखिनीभिः ॥
Metre: उपजातिः
विलेखितुं भीमभुवो लिपीषु सख्याऽतिविख्यातिभृतापि यत्र । अशाकि लीलाकमलं न पाणिः अपारि कर्णोत्पलमक्षि नैव ॥
Metre: उपजातिः
भैमीमुपावीणयदेत्य यत्र कलिप्रियस्य प्रियशिष्यवर्गः । गन्धर्ववध्वः स्वरमध्वरीणतत्कण्ठनालैकधुरीणवीणः ॥
Metre: उपजातिः
नावा स्मरः किं हरभीतिगुप्तेः पयोधरे खेलति कुम्भ एव । इत्यर्धचन्द्राभनखाङ्कचुम्बिकुचा सखी यत्र सखीभिरूचि ॥
Metre: उपजातिः
स्मराशुगीभूय विदर्भसुभ्रुवक्षो यदक्षभि खलु प्रसूनैः । स्रजं सृजन्त्या तदशोधि तेषु यत्रैकया सूचिशिखां निखाय ॥
Metre: उपजातिः
यत्रावदत्तामतिभीय भैमी त्यज त्यजेदं सखि ! साहसिक्यम् । त्वमेव कृत्वा मदनाय दत्से बाणान्प्रसूनानि गुणेन सज्जाम् ॥
Metre: उपजातिः
आलिख्य सख्याः कुचपत्रभङ्गी मध्ये सुमध्या मकरीं करेण । यत्रालपत्तामिदमालि ! यानं मन्ये त्वदेकावलिनाकनद्याः ॥
Metre: इन्द्रवज्रा
तामेव सा यत्र जगाद भूयः पयोधियादः कुचकुम्भयोस्ते । सेयं स्थिता तावकहृच्छयाङ्कप्रियास्तु विस्तारयशः प्रशस्तिः ॥
Metre: उपजातिः