पुरःस्थितस्य क्वचिदस्य भूषारत्नेषु नार्यः प्रतिबिम्बितानि । व्योमन्यदृश्येषु निजान्यपश्यन्विस्मित्य विस्मित्य सहस्रकृत्वः ॥
Metre: उपजातिः
तस्मिन्विषज्यार्धपथात्तपातं तदङ्गरागच्छुरितं निरीक्ष्य । विस्मेरतामापुरविस्मरन्त्यः क्षिप्तं मिथः कन्दुकमिन्दुमुख्यः ॥
Metre: उपजातिः
पुंसि स्वभर्तृव्यतिरिक्तभूते भूत्वाप्यनीक्षानियमव्रतिन्यः । छायासु रूपं भुवि वीक्ष्य तस्य फलं दृशोरानशिरे महिष्यः ॥
Metre: उपजातिः
विलोक्य तच्छायमतर्कि ताभिः पतिं प्रति स्वं वसुधापि धत्ते । यथा वयं किं मदनं तथैनं त्रिनेत्रनेत्रानलकीलनीलम् ॥
Metre: उपेन्द्रवज्रा
रूपं प्रतिच्छायिकयोपनीतम् आलोकि ताभिर्यदि नाम कामम् । तथापि नालोकि तदस्य रूपं हारिद्रभङ्गाय वितीर्णभङ्गम् ॥
Metre: उपजातिः
भवन्नदृश्यः प्रतिबिम्बदेहव्यूहं वितन्वन्मणिकुट्टिमेषु । पुरं परस्य प्रविशन्वियोगी योगीव चित्रं स रराज राजा ॥
Metre: उपजातिः
पुमानिवास्पर्शि मया व्रजन्त्या छाया मया पुंस इव व्यलोकि । ब्रुवन्निवातर्कि मयापि कश्चित् इति स्म स स्त्रैणगिरः शृणोति ॥
Metre: उपजातिः
अम्बां प्रणत्योपनता नताङ्गी नलेन भैमी पथि योगमाप । स भ्रान्तिभैमीषु न तां व्यविक्त सा तं च नादृश्यतया ददर्श ॥
Metre: उपजातिः
प्रसूप्रसादाधिगता प्रसूनमाला नलस्योद्भ्रमवीक्षितस्य । क्षिप्तापि कण्ठाय तयोपकण्ठे स्थितं तमालम्बत सत्यमेव ॥
Metre: उपजातिः
स्रग्वासनादृष्टजनप्रसादः सत्येयमित्यद्भुतमाप भूपः । क्षिप्तामदृश्यत्वमितां च मालामालोक्य तां विस्मियते स्म बाला ॥
Metre: इन्द्रवज्रा