नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 41 to 50 of 110 verses
Verse 41
विद्या विदर्भेन्द्रसुताधरोष्ठे नृत्यन्ति कत्यन्तरभेदभाजः । इतीव रेखाभिरपश्रमस्ताः संख्यातवान्कौतुकवान्विधाता ॥
Metre: उपजातिः

Verse 42
संभुज्यमानाद्य मया निशान्ते स्वप्नेऽनुभूता मधुराधरेयम् । असीमलावण्यरदच्छदेत्थं कथं मयैव प्रतिपद्यते वा ॥
Metre: उपजातिः

Verse 43
यदि प्रसादीकुरुते सुधांशोः एषा सहस्रांशमपि स्मितस्य । तत्कौमुदीनां कुरुते तमेव निमिच्छ्य देवः सफलं स जन्म ॥
Metre: उपजातिः

Verse 44
चन्द्राधिकैतन्मुखचन्द्रिकाणां दरायतं तत्किरणाद्धनानाम् । पुरः सरस्रस्तपृषद्द्वितीयं रदावलिद्वन्द्वति बिन्दुवृन्दम् ॥
Metre: उपजातिः

Verse 45
सेयं ममैतद्विरहार्तिमूर्च्छा तमीविभातस्य विभाति संध्या । महेन्द्रकाष्ठागतरागकर्त्री द्विजैरमीभिः समुपास्यमाना ॥
Metre: उपजातिः

Verse 46
राजौ द्विजानामिह राजदन्ताः संबिभ्रति श्रोत्रियबिभ्रमं यत् । उद्वेगरागादिमृजावदाताः चत्वार एते तदवैमि मुक्ताः ॥
Metre: इन्द्रवज्रा

Verse 47
शिरीषकोषादपि कोमलाया वेधा विधायाङ्गमशेषमस्याः । प्राप्तप्रकर्षः सुकुमारसर्गे समापयद्वाचि मृदुत्वमुद्राम् ॥
Metre: उपजातिः

Verse 48
प्रसूनबाणाद्वयवादिनी सा काचिद्द्विजेनोपनिषत्पिकेन । अस्याः किमास्यद्विजराजतो वा नाधीयते भैक्षभुजा तरुभ्यः ॥
Metre: उपजातिः

Verse 49
पद्माङ्कसद्मानमवेक्ष्य लक्ष्मीम् एकस्य विष्णोः श्रयणात्सपत्नीम् । आस्येन्दुमस्या भजते जिताब्जं सरस्वती तद्विजिगीषया किम् ॥
Metre: उपजातिः

Verse 50
कण्ठे वसन्ती चतुरा यदस्याः सरस्वती वादयते विपञ्चीम् । तदेव वाग्भूय मुखे मृगाक्ष्याः श्रोतुः श्रुतौ याति सुधारसत्वम् ॥
Metre: उपजातिः

Showing 41 to 50 of 110 verses