अथ प्रियासादनशीलनादौ मनोरथः पल्लवितश्चिरं यः । विलोकनेनैव स राजपुत्र्याः पत्या भुवः पूर्णवदभ्यमानि ॥
Metre: उपजातिः
प्रतिप्रतीकं प्रथमं प्रियायाम् अथान्तरानन्दसुधासमुद्रे । ततः प्रमोदाश्रुपरम्पराणां ममज्जतुस्तस्य दृशौ नृपस्य ॥
Metre: उपेन्द्रवज्रा
ब्रह्माद्वयस्यान्वभवत्प्रमोदं रोमाग्र एवाग्रनिरीक्षितेऽस्याः । यथौचितीत्थं तदशेषदृष्टावथ स्मराद्वैतमुदं तथासौ ॥
Metre: उपजातिः
वेलामतिक्रम्य पृथुं मुखेन्दोः आलोकपीयूषरसेन तस्याः । नलस्य रागाम्बुनिधौ विवृद्धे तुङ्गौ कुचावाश्रयतः स्म दृष्टि ॥
Metre: उपजातिः
मग्ना सुधायां किमु तन्मुखेन्दोः लग्ना स्थिता तत्कुचयोः किमन्तः । चिरेण तन्मध्यममुञ्चतास्य दृष्टिः क्रशीयः स्खलनाद्भिया नु ॥
Metre: उपजातिः
प्रियाङ्गपान्था कुचयोर्निवृत्य निवृत्य लोला नलदृग्भ्रमन्ती । बभौतमां तन्मृगनाभिलेपतमःसमासादितदिग्भ्रमेव ॥
Metre: उपेन्द्रवज्रा
विभ्रम्य तच्चारुनितम्बचक्रे दूतस्य दृक्तस्य खलु स्खलन्ती । स्थिरा चिरादास्य तदूरुरम्भास्तम्भावुपाश्लिष्य करेण गाढम् ॥
Metre: उपजातिः
वासः परं नेत्रमहं न नेत्रं किमु त्वमालिङ्ग्य तन्मयापि । उरोनितम्बोपु कुरु प्रसादम् इतीव सा तत्पदयोः पपात ॥
Metre: उपेन्द्रवज्रा
दृशोर्यथाकाममथोपहृत्स स प्रेयसीमालिकुलं च तस्याः । इदं प्रमोदाद्भुतसंभृतेन महीमहेन्द्रो मनसा जगाद ॥
Metre: उपजातिः
पदे विधातुर्यदि मन्मथो वा ममाभिषिच्येत मनोरथो वा । तदा घटेतापि न वा तदेतत्प्रतिप्रतीकाद्भुतरूपशिल्पम् ॥
Metre: उपेन्द्रवज्रा