नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 1 to 10 of 113 verses
Verse 1
दूत्याय दैत्यारिपतेः प्रवृत्तो द्विषां निषेद्धा निषधप्रधानम् । स भीमभूमीपतिराजधानीं लक्षीचकाराथ रथस्यदस्य ॥
Metre: उपजातिः

Verse 2
भैम्या समं नाजगणद्वियोगं स दूतधर्मे स्थिरधीरधीराः । पयोधिपाने मुनिरन्तरायं दुर्वारमप्यौर्वसिवौर्वशेयः ॥
Metre: उपजातिः

Verse 3
नलप्रणालीमिलदम्बुजाक्षीसंवादपीयूषपिपासवस्ते । तदध्ववीक्षार्थमिवानिमेषा देशस्य तस्याभरणीबभूवुः ॥
Metre: उपजातिः

Verse 4
तां कुण्डिनाख्यापदमात्रगुप्ताम् इन्द्रस्य भूमेरमरावतीं सः । मनोरथः सिद्धिमिव क्षणेन रथस्तदीयः पुरमाससाद ॥
Metre: उपजातिः

Verse 5
भैमीपदस्पर्शकृतार्थरथ्या सेयं पुरीत्युत्कलिकाकुलस्ताम् । नृपौ निपीय क्षणमीक्षणाभ्यां भृशं निराश्वास सुरैः क्षताशः ॥
Metre: उपजातिः

Verse 6
स्विद्यत्प्रमोदाश्रुलवेन वामं रोमाञ्चभृत्पक्ष्मभिरस्य चक्षुः । अन्यत्पुनः कम्प्रमपि स्फुरत्त्वात्तस्याः पुरः प्राप नवोपभोगम् ॥
Metre: इन्द्रवज्रा

Verse 7
रथादसौ सारथिना सनाथा द्राजावतीर्याथ पुरं विवेश । निर्गत्य बिम्बादिव भानवीयात्सौधाकरं मण्डलमंशुसङ्घः ॥
Metre: उपजातिः

Verse 8
चित्रं तदा कुण्डिनवेशिनः सा नलस्य मूर्तिर्ववृते न दृश्या । बभूव तच्चित्रतरं तथापि विश्वैकदृश्यैव यदस्य मूर्तिः ॥
Metre: उपजातिः

Verse 9
जनैर्विदग्धैर्भवनैश्च मुग्धैः पदे पदे विस्मयकल्पवल्लीम् । तां गाहमानास्य चिरं नलस्य दृष्टिर्ययौ राजकुलातिथित्वम् ॥
Metre: उपजातिः

Verse 10
हेलां दधौ रक्षिजनेऽस्त्रसज्जे लीनश्चरामीति हृदा ललज्जे । द्रक्ष्यामि भैमीमिति संतुतोष दूतं विचिन्त्य स्वमसौ शुशोच ॥
Metre: इन्द्रवज्रा

Showing 1 to 10 of 113 verses