नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 21 to 30 of 113 verses
Verse 21
मीलन्न शेकेऽभिमुखागताभ्यां धर्तुं निपीड्य स्तनसान्तराभ्याम् । स्वाङ्गान्यपेतो विजगौ स पश्चात्पुमङ्गसङ्गोत्पुलके पुनस्ते ॥
Metre: उपजातिः

Verse 22
निमीलनस्पष्टविलोकनाभ्यां कदर्थितस्ताः कलयन्कटाक्षैः । स रागदर्शीव भृशं ललज्जे स्वतः सतां ह्रीः परतोऽतिगुर्वी ॥
Metre: उपेन्द्रवज्रा

Verse 23
रोमाञ्चिताङ्गीमनु तत्कटाक्षैः भ्रान्तेन कान्तेन रतेर्निदिष्टः । मोघः शरौघः कुसुमानि नाभूत्तद्धैर्यपूजां प्रति पर्यवस्यन् ॥
Metre: इन्द्रवज्रा

Verse 24
हित्वैव वर्त्मैकमिह भ्रमन्त्याः स्पर्शः स्त्रियाः सुत्यज इत्यवेत्य । चतुष्पथस्याभरणं बभूव लोकावलोकाय सतां स दीपः ॥
Metre: उपजातिः

Verse 25
उद्वर्तयन्त्या हृदये निपत्य नृपस्य दृष्टिर्न्यवृतद्द्रुतैव । वियोगिवैरात्कुचयोर्नखाङ्कैः अर्धेन्दुलीलैर्गलहस्ततेव ॥
Metre: उपजातिः

Verse 26
तन्वीमुखं द्रागधिगत्य चन्द्रं वियोगिनस्तस्य मिमीलिताभ्याम् । द्वयं द्रढीयः कृतमीक्षणाभ्यां तदिन्दुता च स्वसरोजता च ॥
Metre: उपजातिः

Verse 27
चतुष्पथे तं विनिमीलिताक्षं चतुर्दिगेताः सुखमग्रहीष्यन् । संघट्ट्य तस्मिन्भृशभीनिवृतात्तस्ता एव तद्वर्त्म न चेददास्यन् ॥
Metre: उपेन्द्रवज्रा

Verse 28
संघट्टयन्त्यास्तरसात्मभूषाहीराङ्कुरप्रोतदुकूलहारी । दिशा नितम्बं परिधाप्य तन्व्याः तत्पापसंतापमवाप भूपः ॥
Metre: उपजातिः

Verse 29
हतः कयाचित्पथि कन्दुकेन संघट्ट्य भिन्नः करजैः कयापि । कयाचनाक्तः कुचकुङ्कुमेन संभुक्तकल्पः स बभूव ताभिः ॥
Metre: उपजातिः

Verse 30
छायामयः प्रैक्षि कयापि हारे निजे स गच्छन्नथ नेक्ष्यमाणः । तच्चिन्तयान्तर्निरचायि चारु स्वस्यैव तन्व्या हृदयं प्रविष्टः ॥
Metre: उपजातिः