इत्थं पुनर्वागवकाशनाशान्महेन्द्रदूत्यामपयातवत्याम् । विवेश लोलं हृदयं नलस्य जीवः पुनः क्षीबमिव प्रबोधः ॥
Metre: उपजातिः
श्रवणपुटयुगेन स्वेन साधूपनीतं दिगधिपकृपयाप्तादीदृशः संविधानात् । अलभत मधु बालारागवागुत्थमित्थं निषधजनपदेन्द्रः पातुमानन्दसान्द्रम् ॥
Metre: मालिनी
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं ममल्लदेवी च यम् । षष्ठः खण्डनखण्डतोऽपि सहजात्क्षोदक्षमे तन्महाकाव्येऽयं व्यगलन्नलस्य चरिते सर्गो निसर्गोज्ज्वलः ॥
Metre: शार्दूलविक्रीडितम्