नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 101 to 110 of 113 verses
Verse 101
इतीन्द्रदूत्याः प्रतिवाचमर्धे प्रत्युह्य सैषाभिदधे वयस्याः । किंचिद्विवक्षोल्लसदोष्ठलक्ष्मीजितापनिद्रद्दलपङ्कजास्याः ॥
Metre: उपजातिः

Verse 102
अनादिधाविस्वपरम्पराया हेतुस्रजः स्रोतसि वेश्वरे वा । आयत्तधीरेष जनस्तदार्याः ! किमीदृशः पर्यनुयोगयोग्यः ॥
Metre: उपजातिः

Verse 103
नित्यं नियत्या परवत्यशेषे कः संविदानोऽप्यनुयोगयोग्यः । अचेतना सा च न वाचमर्हेद्वक्ता तु वक्त्रश्रमकर्म भुङ्क्ते ॥
Metre: उपजातिः

Verse 104
क्रमेलकं निन्दति कोमलेच्छुः क्रमेलकः कण्टकलम्पटस्तम् । प्रीतौ तयोरिष्टभुजोः समायां मध्यस्थता नैकतरोपहासः ॥
Metre: उपजातिः

Verse 105
गुणा हरन्तोऽपि हरेर्नरं मे न रोचमानं परिहापयन्ति । न लोकमालोकयथापवर्गा त्रिवर्गमर्वाञ्चममुञ्चमानम् ॥
Metre: उपेन्द्रवज्रा

Verse 106
आकीटमाकैटभवैरि तुल्यः स्वाभीष्टलाभात्कृतकृत्यभावः । भिन्नस्पृहाणां प्रति चार्थमर्थं द्विष्टत्वमिष्टत्वमपव्यवस्थम् ॥
Metre: इन्द्रवज्रा

Verse 107
अध्वाग्रजाग्रन्निभृतापदन्धुः बन्धुर्यदि स्यात्प्रतिबन्धुमर्हः । जोषं जनः कार्यविदस्तु वस्तु प्रच्छया निजेच्छा पदवीं मुदस्तु ॥
Metre: इन्द्रवज्रा

Verse 108
इत्थं प्रतीपोक्तिमतिं सखीनां विलुप्य पाण्डित्यबलेन बाला । अपि श्रुतस्वर्पतिमन्त्रिसूक्तिं दूतीं बभाषेऽद्भुतलोलमौलिम् ॥
Metre: उपजातिः

Verse 109
परेतभर्तुर्मनसेव दूतीं नभस्वतेवानिलसख्यभाजः । त्रिस्रोतसेवाम्बुपतेस्तदाशु स्थिरास्थमायातवतीं निरास्थम् ॥
Metre: उपजातिः

Verse 110
भूयोऽर्थमेनं यदि मां त्वमात्थ तदा पदावालभसे मघोनः । सतीव्रतैस्तीव्रमिमं तु मन्तुम् अन्तर्वरं वज्रिणि मार्जितास्मि ॥
Metre: उपजातिः

Showing 101 to 110 of 113 verses