नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 91 to 100 of 113 verses
Verse 91
स्तुतौ मघोनस्त्यज साहसिक्यं वक्तुं कियत्तं यदि वेद वेदः । मृषोत्तरं साक्षिणि हृत्सु नॄणाम् अज्ञातृविज्ञापि ममापि तस्मिन् ॥
Metre: उपजातिः

Verse 92
आज्ञां तदीयामनु कस्य नाम नकारपारुष्यमुपैतु जिह्वा । प्रह्वा तु तां मूर्ध्नि विधाय मालां बालापराध्यामि विशेषवाग्भिः ॥
Metre: उपजातिः

Verse 93
तपः फलत्वेन हरेः कृपेयमिमं तपस्येव जनं नियुङ्के । भवत्युपायं प्रति हि प्रवृत्तावुपेयमाधुर्यमधैर्यसर्जि ॥
Metre: उपेन्द्रवज्रा

Verse 94
शुश्रूषिताहे तदहं तमेव पतिं मुदेऽपि व्रतसंपदेऽपि । विशेषलेशोऽयमदेवदेहमंशागतं तु क्षितिभृत्तयेह ॥
Metre: उपजातिः

Verse 95
अश्रौषमिन्द्रादरिणीर्गिरस्ते सतीव्रतातिप्रतिलोमतीव्राः । स्वं प्रागहं प्रादिषि नामराय किं नाम तस्मै मनसा नराय ॥
Metre: उपजातिः

Verse 96
तस्मिन्विमृश्यैव वृते हृदैषा मैन्द्री दया मामनुतापिकाभूत् । निर्वातुकामं भवसंभवानां धीरं सुखानामवधीरणेव ॥
Metre: इन्द्रवज्रा

Verse 97
वर्षेषु यद्भारतमार्यधुर्याः स्तुवन्ति गार्हस्थ्यमिवाश्रमेषु । तत्रास्मि पत्युर्वरिवस्ययेह शर्मोर्मिकिर्मीरितधर्मलिप्सुः ॥
Metre: उपजातिः

Verse 98
स्वर्गे सतां शर्म परं न धर्मा भ्रवन्तिं भूमाविह तच्च ते च । शक्या मखेनापि मुदोऽमराणां कथं विहाय त्रयमेकमीहे ॥
Metre: उपजातिः

Verse 99
साधोरपि स्वः खलु गामिताधो गमी स तु स्वर्गमितः प्रयाणे । इत्यायती चिन्तयतो हृदि द्वे द्वयोरुदर्कः किमु शर्करे न ॥
Metre: उपजातिः

Verse 100
प्रक्षीण एवायुषि कर्मकृष्टे नरान्न तिष्ठत्युपतिष्ठते यः । बुभुक्षते नाकमपथ्यकल्पं धीरस्तमापातसुखोन्मुखं कः ॥
Metre: उपजातिः