नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 91 to 100 of 110 verses
Verse 91
अङ्गेन केनापि विजेतुमस्या गवेष्यते किं चलपत्रपत्रम् । न चेद्विशेषादितरच्छदेभ्यः तस्यास्तु काम्पस्तु कुतो भयेन ॥
Metre: उपजातिः

Verse 92
भ्रूश्चित्रलेखा च तिलोत्तमास्या नासा च रम्भा च यदूरुसृष्टिः । दृष्टा ततः पूरयतीयमेकान् एकाप्सरः प्रेक्षणकौतुकानि ॥
Metre: इन्द्रवज्रा

Verse 93
रम्भापि किं चिह्नयति प्रकाण्डं न चात्मनः स्वेन न चैतदूरु । स्वस्यैव येनोपरि सा ददाना पत्राणि जागर्त्यनयोर्भ्रमेण ॥
Metre: उपजातिः

Verse 94
विधाय मूर्धानमदश्चरं चेन्मुञ्चेत्तपोभिः स्मरसामभावम् । जाड्यं च नाञ्चेत्कदली बलीयस्तदा यदि स्यादिदमूरुचारुः ॥
Metre: उपजातिः

Verse 95
ऊरुप्रकाण्डद्वितयेन तन्व्याः करः पराजीयत वारणीयः । युक्तं ह्रिया कुण्डलनच्छलेन गोपायति स्वं मुखपुष्करं सः ॥
Metre: उपजातिः

Verse 96
अस्यां मुनीनामपि मोहमूहे भृगुर्महान्यत्कुचशैलशीली । नानारदाह्लादि मुखं श्रितोरुः व्यासो महाभारतसर्गयोग्यः ॥
Metre: उपजातिः

Verse 97
क्रमाद्गता पीवरताधिजङ्घं वृक्षाधिरूढं विदुषी किमस्याः । अपि भ्रमीभङ्गिभिरावृताङ्गं वासो लतावेष्टितकप्रवीणम् ॥
Metre: उपजातिः

Verse 98
अरुन्धतीकामपुरंघ्रिलक्ष्मीजन्भद्विषद्दारनवाम्बिकानाम् । चतुर्दशीयं तदिहोचितैव गुल्फद्वयाप्ता यददृश्यसिद्धिः ॥
Metre: उपजातिः

Verse 99
अस्याः पदौ चारुतया महान्तावपेक्ष्य सौक्ष्म्याल्लवभावभाजः । जाता प्रवालस्य महीरुहाणां जानीमहे पल्लवशब्दलब्धिः ॥
Metre: उपजातिः

Verse 100
जगद्वधूमूर्धसु रूपदर्पाद्यदेतयादायि पदारविन्दम् । तत्सान्द्रसिन्दूरपरागरागैः ध्रुवं प्रवालप्रबलारुणं तत् ॥
Metre: उपजातिः

Showing 91 to 100 of 110 verses