त्वत्कान्तिमस्माभिरयं पिपासन्मनोरथाश्वासनयैकयैव । निजः कटाक्षः खलु विप्रलभ्यः कियन्ति यावद्भण वासराणि ॥
Metre: उपजातिः
निजे स्जृस्मासु भुजै भजन्त्यावादित्यवर्गे परिवेषवेषम् । प्रसीद निर्वापय तापमङ्गैः अनङ्गलीलालहरीतुषारैः ॥
Metre: उपेन्द्रवज्रा
दयस्व किं घातयसि त्वमस्मान् अनङ्गचण्डालशरैरदृश्यैः । भिन्ना वरं तीक्ष्णकटाक्षबाणैः प्रेमस्तव प्रेमरसात्पवित्रैः ॥
Metre: उपजातिः
त्वदर्थिनः सन्तु परस्सहस्राः प्राणास्तु नस्त्वच्चरणप्रसादः । विशङ्कसे कैतवनर्तितं चेत् अन्तश्चरः पञ्चशरः प्रमाणम् ॥
Metre: उपजातिः
अस्माकमध्यासितमेतदन्तः तावद्भवत्या हृदयं चिराय । बहिस्त्वयालंक्रियतामिदानीम् उरो मुरं विद्विषतः श्रियेव ॥
Metre: उपजातिः
दयोदयश्चेतसि चेत्तवाभूत् अलंकुरु द्यां विफलो विलम्बः । भुवः स्वरादेशमथाचरामो भूमौ धृतिं यासि यदि स्वभूमौ ॥
Metre: उपजातिः
धिनोति नास्माञ्जलजेन पूजा त्वयान्वहं तन्वि ! वितन्यमाना । तव प्रसादोपनते तु मौलौ पूजास्तु नस्त्वत्पदपङ्कजाभ्याम् ॥
Metre: उपजातिः
स्वर्णैर्वितीर्णैः करवाम वामनेत्रे ! भवत्या किमुपासनासु । अङ्ग ! त्वदङ्गानि निपीतपीतदर्पाणि पाणिः खलु याचते नः ॥
Metre: इन्द्रवज्रा
वयं कलादा इव दुर्विदग्धं त्वद्गौरिमस्पर्धि दहेम हेम । प्रसूननाराचशरासनेन सहैकवंशप्रभवभ्रु ! बभ्रु ॥
Metre: उपजातिः
सुधासरःसु त्वदनङ्गतापः शान्तो न नः किं पुरप्यसरःसु । निर्वाति तु त्वन्ममताक्षरेण सूनाशुगेषोर्मधुसीकरेण ॥
Metre: उपजातिः