अग्न्याहिता नित्यमुपासते यां देदीप्यमानां तनुमष्टमूर्तेः । आशापतिस्ते दमयन्ति ! सोऽपि स्मरेण दासीभवितुं न्यदेशि ॥
Metre: उपजातिः
त्वद्गोचरस्तं खलु पञ्चबाणः करोति संताप्य तथा विनीतम् । स्वयं यथा स्वादिततप्तभूयः परं न संतापयिता स भूयः ॥
Metre: उपजातिः
अदाहि यस्तेन दशार्धबाणः पुरा पुरारेर्नयनालयेन । न निर्दहस्तं भवदक्षिवासी न वैरशुद्धेरधुनाधमर्णः ॥
Metre: उपेन्द्रवज्रा
सोमाय कुप्यन्निव विप्रयुक्तः स सोममाचामति हूयमानम् । नामापि जागर्ति हि यत्र रात्रौ तेजस्विनस्तं कतमे सहन्ते ॥
Metre: उपजातिः
शरैरजस्रं कुसुमायुधस्य कदर्थ्यमानस्तरुणि ! त्वदर्थे । अभ्यर्चयद्भिर्विनिवेद्यमानात् अप्येष मन्ये कुसुमाद्बिभेति ॥
Metre: उपजातिः
स्मरेन्धने वक्षसि तेन दत्ता संवर्तिका शैवलवल्लिचित्रा । चकास्ति चेतोभवपावकस्य धूमाविला कीलपरम्परेव ॥
Metre: उपजातिः
पुत्री सुहृद्येन सरोरुहाणां यत्प्रेयसी चन्दनवासिता दिक् । धैर्यं विभुः सोऽपि तवैव हेतोः स्मरप्रतापज्वलने जुहाव ॥
Metre: उपजातिः
तं दह्यमानैरपि मन्मथैद्यं हस्तैरुपास्ते मलयः प्रवालैः । कृच्छ्रेऽप्यसौ नोज्झति तस्य सेवां सदा यदाशामवलम्बते यः ॥
Metre: उपजातिः
स्मरस्य कीर्त्येव सितीकृतानि तद्दोःप्रतापैरिव तापितानि । अङ्गानि धत्ते स भवद्वियोगात्पाण्डूनि चण्डज्वरजर्जराणि ॥
Metre: उपजातिः
यस्तन्वि ! भर्ता घुसृणेन सायं दिशः समालम्भनकौतुकिन्याः । तदा स चेतः प्रजिघाय तुभ्यं यदा गतो नैति निवृत्य पान्थः ॥
Metre: उपजातिः