नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 61 to 70 of 109 verses
Verse 61
अनेन सार्धं तव यौवनेन कोटिं परामच्छिदुरोऽध्यरोहत् । प्रेमापि तन्वि ! त्वयि वासवस्य गुणोऽपि चापे सुमनः शरस्य ॥
Metre: उपजातिः

Verse 62
प्राचीं प्रयाते विरहादयं ते तापाच्च रूपाच्च शशाङ्कशङ्की । परापराधैर्निदधाति भानौ रुषारुणं लोचनवृन्दमिन्द्रः ॥
Metre: उपजातिः

Verse 63
त्रिनेत्रमात्रेण रुषा कृतं यत्तदेव योऽद्यापि न संवृणोति । न वेद रुष्टेऽद्य सहस्रनेत्रे गन्ता स कामः खलु कामवस्थाम् ॥
Metre: उपजातिः

Verse 64
पिकस्य वाङ्मात्रकृताद्व्यलीकान्नसप्रभुर्नन्दति नन्दनेऽपि । बालस्य चूडाशशिनोऽपराधान्नाराधनं शीलति शूलिनोऽपि ॥ ।
Metre: उपजातिः

Verse 65
तमोमयीकृत्य दिशः परागैः स्मरेषवः शक्रदृशां दिशन्ति । कुहूगिरश्चञ्चुपुटं द्विजस्य राकारजन्यामपि सत्यवाचम् ॥
Metre: उपजातिः

Verse 66
शरैः प्रसूनैस्तुदतः स्मरस्य स्मर्तुं स किं नाशनिना करोति । अभेद्यमस्याहह वर्म न स्यात् अनङ्गता चेद्गिरिशप्रसादः ॥
Metre: उपजातिः

Verse 67
धृताधृतेस्तस्य भवद्वियोगात् अन्यान्यशय्यारचनाय लूनैः । अप्यन्यदारिद्र्यहराः प्रवालैः जाता दरिद्रास्तरवोऽमराणाम् ॥
Metre: उपजातिः

Verse 68
रवैर्गुणास्फालभवैः स्मरस्य स्वर्णाथकर्णौ बधिरावभूताम् । गुरोः श्रृणोति स्मरमोहनिद्राप्रबोधदक्षाणि किमक्षराणि ॥
Metre: उपजातिः

Verse 69
अनङ्गतापप्रशमाय तस्य कदर्थ्यमाना मुहुरामृणालम् । मधौ मधौ नाकनदीनलिन्यो वरं वहन्तां शिशिरेऽनुरागम् ॥
Metre: उपेन्द्रवज्रा

Verse 70
दमस्वसः ! सेयमुपैति तृष्णा हरेर्जगत्यग्रिमलेख्यलक्ष्मीम् । दृशां यदब्धिस्तव नाम दृष्टित्रिभागलोभार्तिमसौ बिभर्ति ॥
Metre: उपेन्द्रवज्रा

Showing 61 to 70 of 109 verses