नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 81 to 90 of 109 verses
Verse 81
तथा न तापाय पयोनिधीनाम् अश्वामुखोत्थः क्षुधितः शिखावान् । निजः पतिः संप्रति वारिपोऽपि यथा हृदिस्थः स्मरतापदुःस्थः ॥
Metre: उपजातिः

Verse 82
यत्प्रत्युत त्वन्मृदुबाहुवल्लीस्मृतिस्रजं गुम्फति दुर्विनीता । ततो विधत्तेऽधिकमेव तापं तेन श्रिता शैत्यगुणा मृणाली ॥
Metre: उपजातिः

Verse 83
न्यस्तं ततस्तेन मृणालदण्डखण्डं बभासे हृदि तापभाजि । तच्चित्तमग्नैर्मदनस्य बाणैः कृतं शतच्छिद्रमिव क्षणेन ॥
Metre: उपजातिः

Verse 84
इति त्रिलोकीतिलकेषु तेषु मनोभुवो विक्रमकामचारः । अमोघमस्त्रं भवतीमवाप्य मदान्धतानर्गलचापलस्य ॥
Metre: उपेन्द्रवज्रा

Verse 85
सारोत्थधारेव सुधारसस्य स्वयंवरः श्वो भविता तवेति । संतर्पयन्ती दमयन्ति ! तेषां श्रुतिः श्रुती नाकजुषामयासीत् ॥
Metre: उपजातिः

Verse 86
समं सपत्नीभवदुःखतीक्ष्णैः स्वदारनासापथिकैर्मरुद्भिः । अनङ्गशौर्यानलतापदुःस्थैः अथ प्रतस्थे हरितां मरुद्भिः ॥
Metre: उपेन्द्रवज्रा

Verse 87
अपास्तपाथेयसुधोपयोगैः त्वच्चुम्बिनैव स्वमनोरथेन । क्षुधं च निर्वापयता तृषं च स्वादीयसाऽध्वा गमितः सुखं तैः ॥
Metre: उपजातिः

Verse 88
प्रिया मनोभूशरदावदाहे देवीस्त्वदर्थेन निमज्जयद्भिः । सुरेषु सारैः क्रियतेऽधुना तैः पादार्पणानुग्रहभूरियं भूः ॥
Metre: उपजातिः

Verse 89
अलंकृतासन्नमहीविभागैः अयं जनस्तैरमरैर्भवत्याम् । अवापितो जङ्गमलैखलक्ष्मीं निक्षिप्य संदेशमयाक्षराणि ॥
Metre: उपजातिः

Verse 90
एकैकमेते परिरभ्य पीनस्तनोपपीडं त्वयि संदिशन्ति । त्वं मूर्च्छतां नः स्मरभिल्लशल्यैः मुदे विशल्यौषधिवल्लिरेधि ॥
Metre: उपजातिः