नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 1 to 10 of 109 verses
Verse 1
अथाद्भुतेनास्तनिमेषमुद्रम् उन्निद्रलोमानममुं युवानम् । दृशा पपुस्ताः सुदृशः समस्ताः सुता च भीमस्य महीमघोनः ॥
Metre: उपजातिः

Verse 2
कियच्चिरं दैवतभाषितानि निह्नोतुमेनं प्रभवन्तु नाम । पलालजालैः पिहितः स्वयं हि प्रकाशमासादयतीक्षुडिम्भः ॥
Metre: उपजातिः

Verse 3
अपाङ्गमप्याय दृशोर्न रश्मिः नलस्य भैमीमभिलष्य यावत् । स्मराशुगः सुभ्रुवि तावदस्यां प्रत्यङ्गमापुङ्खशिखं ममज्ज ॥
Metre: उपजातिः

Verse 4
यदक्रमं विक्रमशक्तिसाम्याद् उपाचरद्द्वावपि पञ्चबाणः । कथं न वैमत्यममुष्य चक्रे शरैरनर्धार्धविभागभाग्मिः ॥
Metre: उपेन्द्रवज्रा

Verse 5
तस्मिन्नलोऽसाविति सान्वरज्यत्क्षणं क्षणं क्वेह स इत्युदास्त । पुनः स्म तस्यां वलतेऽस्य चित्तं दूत्यादनेनाथ पुनर्न्यवर्ति ॥
Metre: उपजातिः

Verse 6
कयाचिदालोक्य नलं ललज्जे कयापि तद्भासि हृदा ममज्जे । तं कापि मेने स्मरमेव कन्या भेजे मनोभूवशभूयमन्या ॥
Metre: उपजातिः

Verse 7
कस्त्वं कुतो वेति न जातु शेकुः तं प्रष्टुमप्यप्रतिभातिभारात् । उत्तस्थुरभ्युत्थितिवाञ्छयेव निजासनान्नैकरसाः कृशाङ्ग्यः ॥
Metre: उपजातिः

Verse 8
स्वाच्छन्द्यमानन्दपरंपराणां भैमी तमालोक्य किमप्यवाप । महारयं निर्झरिणीव वाराम् आसाद्य धाराधरकेलिकालम् ॥
Metre: उपजातिः

Verse 9
तत्रैव मग्ना यदपश्यदग्रे नास्या दृगस्याङ्गमयास्यदन्यत् । नादास्यदस्यै यदि बुद्धिधारां विच्छिद्य विच्छिद्य चिरान्निमेषः ॥
Metre: इन्द्रवज्रा

Verse 10
दृशापि सालिङ्गितमङ्गमस्य जग्राह नाग्रावगताङ्गहर्षैः । अङ्गान्तरेऽनन्तरमीक्षिते तु निवृत्य सस्मार न पूर्वदृष्टम् ॥
Metre: उपजातिः

Showing 1 to 10 of 109 verses