नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 21 to 30 of 109 verses
Verse 21
स्वात्मापि शीलेन तृणं विधेयं देया विहायासनभूर्निजापि । आनन्दबाष्पैरपि कल्प्यमम्भः पृच्छा विधेया मधुभिर्वचोभिः ॥
Metre: इन्द्रवज्रा

Verse 22
पदोपहारेऽनुपनम्रतापि संभाव्यतेऽपां त्वरयापराधः । तत्कर्तुमर्हाञ्जलिसञ्जनेन स्वसंभृतिः प्राञ्जलतापि तावत् ॥
Metre: उपजातिः

Verse 23
पुरा परित्यज्य मयात्यसर्जि स्वमासनं तत्किमिति क्षणं न । अनर्हमप्येतदलंक्रियेत प्रयातुमीहा यदि चान्यतोऽपि ॥
Metre: उपेन्द्रवज्रा

Verse 24
निवेद्यतां हन्त समापयन्तौ शिरीषकोषभ्रदिमाभिमानम् । पादौ कियद्दूरमिमौ प्रयासे निधित्सते तुच्छदयं मनस्ते ॥
Metre: उपजातिः

Verse 25
अनायि देशः कतमस्त्वयाद्य वसन्तमुक्तस्य दशां वनस्य । त्वदाप्तसंकेततया कृतार्था श्रव्यापि नानेन जनेन संज्ञा ॥
Metre: उपजातिः

Verse 26
तीर्णः किमर्णोनिधिरेव नैष सुरक्षितेऽभूदिह यत्प्रवेशः । फलं किमेतस्य तु साहसस्य न तावदद्यापि विनिश्चिनोमि ॥
Metre: उपजातिः

Verse 27
तव प्रवेशे सुकृतानि हेतुः मन्ये मदक्ष्णोरपि तावदत्र । न लक्षितो रक्षिभटैर्यदाभ्यां पीतोऽसि तन्वा जितपुष्पधन्वा ॥
Metre: उपजातिः

Verse 28
यथाकृतिः काचन ते यथा वा दौवारिकान्धंकरणी च शक्तिः । रुच्यो रुचीभिर्जितकाञ्चनीभिः तथासि पीयूषभुजां सनाभिः ॥
Metre: उपजातिः

Verse 29
न मन्मथस्त्वं स हि नास्तिमूर्तिः न चाश्विनेयः स हि नाद्वितीयः । चिह्नैः किमन्यैरथवा तवेयं श्रीरेव ताभ्यामधिको विशेषः ॥
Metre: उपजातिः

Verse 30
आलोकतृप्तीकृतलोक ! यस्त्वाम् असूत पीयूषमयूखमेनम् । कः स्पर्धितुं धावति साधु सार्धम् उदन्वता नन्वयमन्ववायः ॥
Metre: उपजातिः