भूयोऽपि बाला नलसुन्दरं तं मत्वामरं रक्षिजनाक्षिबन्धात् । आतिथ्यचाटून्यपदिश्य तत्स्थां श्रियं प्रियस्यास्तुत वस्तुतः सा ॥
Metre: उपजातिः
वाग्जन्मवैफल्यमसह्यशल्यं गुणाद्भुते वस्तुनि मौनिता चेत् । खलत्वमल्पीयसि जल्पितेऽपि तदस्तु बन्दिभ्रमभूमितैव ॥
Metre: उपजातिः
कंदर्प एवेदमविन्दत त्वां पुण्येन मन्ये पुनरन्यजन्म । चण्डीशचण्डाक्षिहुताशकुण्डे जुहाव यन्मन्दिरमिन्द्रियाणाम् ॥
Metre: उपजातिः
शोभायशोभिर्जितशैवशैलं करोषि लज्जागुरुमौलिमैलम् । दस्रौ हठश्रीहरणादुदस्रौ कंदर्पमप्युज्झितरूपदर्पम् ॥
Metre: उपजातिः
अवैमि हंसावलयो वलक्षाः त्वत्कान्तिकीर्तेश्चपलाः पुलाकाः । उड्डीय युक्तं पतिताः स्रवन्तीवेशन्तपूरं परितः प्लवन्ते ॥
Metre: उपजातिः
भवत्पदाङ्गुष्ठमपि श्रिता श्रीः ध्रुवं न लब्धा कुसुमायुधेन । रतीशजेतुः खलु चिह्नमस्मिन्नर्धेन्दुरास्ते नखवेषधारी ॥
Metre: उपजातिः
राजा द्विजानामनुमासभिन्नः पूर्णां तनूकृत्य तनूं तपोभिः । कुहूषु दृश्येतरतां किमेत्य सायुज्यमाप्नोति भवन्मुखस्य ॥
Metre: उपजातिः
कृत्वा दृशौ ते बहुवर्णचित्रे किं कृष्णसारस्य तयोर्मृगस्य । अदूरजाग्रद्विदरप्रणालीरेखामयच्छद्विधिरर्धचन्द्रम् ॥
Metre: उपजातिः
मुग्धः स मोहात्सुभगान्न देहात्ददद्भवद्भ्रूरचनाय चापम् । भ्रूमङ्गजेयस्तव यन्मनोभूः अनेन रूपेण यदातदाभूत् ॥
Metre: उपजातिः
मृगस्य नेत्रद्वितयं तवास्ये विधौ विधुत्वानुमितस्य दृश्यम् । तस्यैव चञ्चत्कचपाशवेषः पुच्छ स्फुरच्चामरगुच्छ एषः ॥
Metre: उपजातिः