नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 11 to 20 of 109 verses
Verse 11
हित्वैकमस्यापघनं विशन्ती तद्दृष्टिरङ्गान्तरभुक्तिसीमाम् । चिरं चकारोभयलाभलोभात्स्वभावलोला गतमागतं च ॥
Metre: उपजातिः

Verse 12
निरीक्षितं चाङ्गमवीक्षितं च दृशा पिबन्ती रभसेन तस्य । समानमानन्दमियं दधाना विवेद भेदं न विदर्भसुभ्रूः ॥
Metre: उपेन्द्रवज्रा

Verse 13
सूक्ष्मे घने नैषधकेशपाशे निपत्य निस्पन्दतरीभवद्भ्याम् । तस्यानुबन्धं न विमोच्य गन्तुम् अपारि तल्लोचनखञ्जनाभ्याम् ॥
Metre: उपजातिः

Verse 14
भूलोकभर्तुर्मुखपाणिपादपद्मैः परीरम्भमवाप्य तस्य । दमस्वसुर्दृष्टिसरोजराजिः चिरं न तत्याज सबन्धुबन्धम् ॥
Metre: उपजातिः

Verse 15
तत्कालमानन्दमयी भवन्ती भवत्तरानिर्वचनीयमोहा । सा मुक्तसंसारिदशारसाभ्यां द्विस्वादमुल्लासमभुङ्क्त मिष्टम् ॥
Metre: उपजातिः

Verse 16
दूते नलश्रीभृति भाविभावा कलङ्किनीयं जनि मेति नूनम् । न संव्यधान्नैषधकायमायं विधिः स्वयंदूतमिमां प्रतीन्द्रम् ॥
Metre: उपजातिः

Verse 17
पुण्ये मनः कस्य मुनेरपि स्यात्प्रमाणमास्ते यदधेऽपि धावत् । तच्चिन्ति चित्तं परमेश्वरस्तु भक्तस्य हृष्यत्करुणो रुणद्धि ॥
Metre: उपजातिः

Verse 18
सालीकदृष्टे मदनोन्मदिष्णुः यथाप शालीनतमा न मौनम् । तथैव तथ्येऽपि नले न लेभे मुग्धेषु कः सत्यमृषाविवेकः ॥
Metre: उपजातिः

Verse 19
व्यर्थीभवद्भावपिधानयत्ना स्वरेण साथ श्लथगद्गदेन । सखीचये साध्वसबद्धवाचि स्वयं तमूचे नमदाननेन्दुः ॥
Metre: उपजातिः

Verse 20
नत्वा शिरोरत्नरुचापि पाद्यं संपाद्यमाचारविदातिथिभ्यः । प्रियाक्षरालीरसधारयापि वैधी विधेया मधुपर्कतृप्तिः ॥
Metre: उपजातिः

Showing 11 to 20 of 109 verses