नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 11 to 20 of 110 verses
Verse 11
तरङ्गिणी भूमिभृतः प्रभूता जानामि श्रृङ्गाररसस्य सेयम् । लावण्यपूरोऽजनि यौवनेन तस्यां तथोच्चैस्तनताघनेन ॥
Metre: उपजातिः

Verse 12
अस्यां वपुर्व्यूहविधानविद्यां किं द्योतयामास नवां स कामः । प्रत्यङ्गसङ्गस्फुटलब्धभूमा लावण्यसीमा यदिमामुपास्ते ॥
Metre: इन्द्रवज्रा

Verse 13
जम्बालजालात्किमकर्षि जम्बूनद्या न हारिद्रनिभप्रभेयम् । अप्यङ्गयुग्मस्य न सङ्गचिह्नम् उन्नीयते दन्तुरता यदत्र ॥
Metre: इन्द्रवज्रा

Verse 14
सत्येव साम्ये सदृशादशेषाद्गुणान्तरेणोच्चकृषे यदङ्गैः । अस्यास्ततः स्यात्तुलनापि नाम वस्तु त्वमीषामुपमापमानः ॥
Metre: उपजातिः

Verse 15
पुराकृतिस्त्रैणमिमां विधातुम् अभूद्विधातुः खलु हस्तलेखः । येयं भवद्भाविपुरंध्रिसृष्टिः सास्यै यशस्तज्जयजं प्रदातुम् ॥
Metre: उपजातिः

Verse 16
भव्यानि हानीरगुरेतदङ्गाद्यथा यथानर्ति तथा तथा तैः । अस्याधिकस्योपमयोपमाता दाता प्रतिष्ठां खलु तेभ्य एव ॥
Metre: उपजातिः

Verse 17
नास्पर्शि दृष्टापि विमोहिकेयं दोषैरशेषैः स्वभियेति मन्ये । अन्येषु तैराकुलितस्तदस्यां वसत्यसापत्न्यसुखी गुणौघः ॥
Metre: उपजातिः

Verse 18
औज्झि प्रियाङ्गैर्घृणयैव रूक्षा न वारिदुर्गात्तु वराटकस्य । न कण्टकैरावरणाच्च कान्तिः धूलीभृता काञ्चनकेतकस्य ॥
Metre: उपजातिः

Verse 19
प्रत्यङ्गमस्यामभिकेन रक्षां कर्तुं मघोनेव निजास्त्रमस्ति । वज्रं च भूषामणिमूर्तिधारि नियोजितं तद्दयुतिकार्मुकं च ॥
Metre: इन्द्रवज्रा

Verse 20
अस्याः सपक्षैकविधोः कचौघः स्थाने मुखस्योपरि वासमाप । पक्षस्थतावद्बहुचन्द्रकोऽपि कलापिनां येन जितः कलापः ॥
Metre: उपजातिः

Showing 11 to 20 of 110 verses