अथोपकार्याममरेन्द्रकार्यात्कक्षासु रक्षाधिकृतैरदृष्टः । भैमीं दिदृक्षुर्बहु दिक्षु चक्षुः दिशन्नसौ तामविशद्विशङ्कः ॥
Metre: उपजातिः
अयं क इत्यन्यनिवारकाणां गिरा विभूर्द्वारि विभुज्य कण्ठम् । दृशं ददौ विस्मयनिस्तरङ्गां स लङ्घितायामपि राजसिंहः ॥
Metre: उपेन्द्रवज्रा
अन्तःपुरान्तः स विलोक्य बालां कांचित्समालब्धुमसंवृतोरुम् । निमीलिताक्षः परया भ्रमन्त्या संघट्टमासाद्य चमच्चकार ॥
Metre: उपजातिः
अनादिसर्गस्रजि वानुभूता चित्रेषु वा भीमसुता नलेन । जातेव यद्वा जितशम्बरस्य सा शाम्बरीशिल्पमलक्षि दिक्षु ॥
Metre: उपजातिः
अलीकभैमीसहदर्शनान्न तस्यान्यकन्याप्सरसो रसाय । भैमीभ्रमस्यैव ततः प्रसादाद्भैमीभ्रमस्तेन न तास्वलम्भि ॥
Metre: उपजातिः
भैमीनिराशे हृदि मन्मथेन दत्तस्वहस्ताद्विरहाद्विहस्तः । स तामलीकामवलोक्य तत्र क्षणादपश्यन्व्यषदद्विबुद्धः ॥
Metre: उपजातिः
प्रियां विकल्पोपहृतां स यावद्दिगीशसंदेशमजल्पदल्पम् । अदृश्यवाग्भीषितभूरिभीरुभवो रवस्तावदचेतयत्तम् ॥
Metre: उपेन्द्रवज्रा
पश्यन्स तस्मिन्मरुतापि तन्व्याः स्तनौ परिस्प्रष्टुमिवास्तवस्त्रौ । अक्षान्तपक्षान्तमृगाङ्कमास्यं दधार तिर्यग्वलितं विलक्षः ॥
Metre: उपजातिः
अन्तःपुरे विस्तृतवागुरोऽपि बालावलीनां वलितैर्गुणौघैः । न कालसारं हरिणं तदक्षित्वयं प्रभुर्बद्धुमभून्मनोभूः ॥
Metre: उपजातिः
दोर्मूलमालोक्य कचं रुरुत्सोः ततः कुचौ तावनुलेपयन्त्याः । नाभीमथैष श्लथवाससोऽनु मिमील दिक्षु क्रमकृष्टचक्षुः ॥
Metre: उपजातिः