तच्छायसौन्दर्यनिपीतधैर्याः प्रत्येकमालिङ्गदमू रतीशः । रतिप्रतिद्वन्द्वितमासु नूनं नामूषु निर्णीतरतिः कथंचित् ॥
Metre: उपजातिः
तस्माददृश्यादपि नातिबिभ्युः तच्छायरूपाहितमोहलोलाः । मन्यन्त एवादृतमन्मथाज्ञाः प्राणानपि स्वान्सुदृशस्तृणानि ॥
Metre: इन्द्रवज्रा
जागर्ति तच्छायदृशां पुरा यः स्पृष्टे च तस्मिन्विससर्प कम्पः । द्रुते द्रुतं तत्पदशब्दभीत्या स्वहस्तितश्चारुदृशां परं सः ॥
Metre: उपजातिः
उल्लास्यतां स्पृष्टनलाङ्गमङ्गं तासां नलच्छायपिबाऽपि दृष्टिः । अश्मैव रत्यास्तदनर्ति पत्या छेदेऽप्यबोधं यदहर्षि लोम ॥
Metre: इन्द्रवज्रा
यस्मिन्नलस्पृष्टकमेत्य हृष्टा भूयोऽपि तं देशमगान्मृगाक्षी । निपत्य तत्रास्य धरारजःस्थे पादे प्रसीदेति शनैरवादीत् ॥
Metre: उपजातिः
भ्रमन्नमुष्यामुपकारिकायाम् आयस्य भैमीविरहात्क्रशीयान् । असौ मुहुः सौधपरम्पराणां व्यधत्त विश्रान्तिमधित्यकासु ॥
Metre: उपजातिः
उल्लिख्य हंसेन दले नलिन्याः तस्मै यथादर्शि तथैव भैमी । तेनाभिलिख्योपहृतस्वहारा कस्या न दृष्टाजनि विस्मयाय ॥
Metre: इन्द्रवज्रा
कौमारगन्धीनि निवारयन्ती वृत्तानि रोमावलिवेत्रचिह्ना । सालिख्य तेनैक्ष्यत यौवनीयद्वःस्थामवस्थां परिचेतुकामा ॥
Metre: इन्द्रवज्रा
पश्याः पुरंघ्रीः प्रति सान्द्रचन्द्ररजःकृतक्रीडकुमारचक्रे । चित्राणि चक्रेऽध्वनि चक्रवर्तिचिह्नं तदङ्घ्रिप्रतिमासु चक्रम् ॥
Metre: उपजातिः
तारुण्यपुण्यामवलोकयन्त्योः अन्योन्यमेणेक्षणयोरभिख्याम् । मध्ये मुहूर्तं स बभूव गच्छन्नाकस्मिकाच्छादनविस्मयाय ॥
Metre: इन्द्रवज्रा