नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 31 to 40 of 135 verses
Verse 31
मन्मथाय यदथादित राज्ञां हूतिदूत्यविधये विधिराज्ञाम् । तेन तत्परवशाः पृथिवीशाः संगरं गरमिवाकलयन्ति ॥
Metre: स्वागता

Verse 32
येषु येषु सरसा दमयन्ती भूषणेषु यदि वापि गुणेषु । तत्र तत्र कलयापि विशेषो यः स हि क्षितिभृतां पुरुषार्थः ॥
Metre: स्वागता

Verse 33
शैशवव्ययदिनावधि तस्या यौवनोदयिनि राजसमाजे । आदरादहरहः कुसुमेषोः उल्ललास मृगयाभिनिवेशः ॥
Metre: स्वागता

Verse 34
इत्यमी वसुमतीकमितारः सादरास्त्वदतिथीभवितुं न । भीमभूसुरभुवोरभिलापे दूरमन्तरमहो नृपतीनाम् ॥
Metre: स्वागता

Verse 35
तेन जाग्रदधृतिर्दिवमागां संख्यसौख्यमनुसर्तुमनु त्वाम् । यन्मृधं क्षितिभृतां न विलोके तन्निमग्नमनसां भुवि लोके ॥
Metre: स्वागता

Verse 36
वेद यद्यपि न कोऽपि भवन्तं हन्त हन्त्रकरुणं विरुणद्धि । पृच्छ्यसे तदपि येन विवेकप्रोञ्छनाय विषये रससेकः ॥
Metre: स्वागता

Verse 37
एवमुक्तवति देवऋषीन्द्रे द्रागभेदि मघवाननमुद्रा । उत्तरोत्तरशुभो हि विभूनां कोऽपि मञ्जुलतमः क्रमवादः ॥
Metre: स्वागता

Verse 38
कानुजे मम निजे दनुजारौ जाग्रति स्वशरणे रणचर्चा । यद्भुजाङ्कमुपधाय जयाङ्कं शर्मणा स्वपिमि वीतविशङ्कः ॥
Metre: स्वागता

Verse 39
विश्वरूपकलनादुपपन्नं तस्य जैमिनिमुनित्वमुदीये । विग्रहं मखभुजामसहिष्णुः व्यर्थतां मदशनिं स निनाय ॥
Metre: स्वागता

Verse 40
ईदृशानि मुनये विनयाब्धिः तस्थिवान्स वचनान्युपहृत्य । प्रांशुनिःश्वसितपृष्ठचरी वाङ्नारदस्य निरियाय निरोजाः ॥
Metre: स्वागता