नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 51 to 60 of 135 verses
Verse 53
कापि कामपि बभाण बुभुत्सुं शृण्वति त्रिदशभर्तरि किंचित् । एष कश्यपसुतामभिगन्ता पश्य कश्यपसुतः शतमन्युः ॥
Metre: स्वागता

Verse 54
आलिमात्मसुभगत्वसगर्वा कापि शृण्वति मघोनि बभाषे । वीक्षणेऽपि सघृणासि नृणां किं यासि न त्वमपि सार्थगुणेन ॥
Metre: स्वागता

Verse 55
अन्वयुर्द्युतिपयः पितृनाथाः तंमुदाथ हरितां कमितारः । वर्त्म कर्षतु पुरः परमेकस्तद्गतानुगतिको न महार्घः ॥
Metre: स्वागता

Verse 56
प्रेषिताः पृथगथो दमयन्त्यै चित्तचौर्यचतुरा निजदूत्यः । तद्गुरुं प्रति च तैरुपहाराः संख्यसौख्यकपटेन निगूढाः ॥
Metre: स्वागता

Verse 57
चित्रमत्र विबुधैरपि यत्तैः स्वर्विहाय बत भूरनुसस्रे । द्यौर्न काचिदथवास्ति निरुढा सैव सा चलति यत्र हि चित्तम् ॥
Metre: आर्यागीति

Verse 59
किं घनस्य जलधेरथवैवं नैव संशयितुमप्यलभन्त । स्यन्दनं परमदूरमपश्यन्निःस्वनश्रुतिसहोपनतं ते ॥
Metre: स्वागता

Verse 60
सूतविश्रमदकौतुकिभावं भावबोधचतुरं तुरगाणाम् । तत्र नेत्रजनुषः फलमेते नैषधं बुबुधिरे विबुधेन्द्राः ॥
Metre: स्वागता

Verse 61
वीक्ष्य तस्य वरुणस्तरुणत्वं तद्बभार निबिडं जडभूयम् । नौचिती जलपतेः किमु सास्य प्राज्यविस्मयरसस्तिमितस्य ॥
Metre: स्वागता

Verse 62
रूपमस्य विनिरूप्य तथातिम्लानिमाप रविवंशवतंसः । कीर्त्यते यदधुनापि स देवः काल एव सकलेन जनेन ॥
Metre: स्वागता

Verse 63
यं बभार दहनः खलु तापं रूपधेयभरमस्य विमृश्य । तत्र भूदनलता जनिकर्त्री मा तदप्यनलतैव तु हेतुः ॥
Metre: स्वागता

Showing 51 to 60 of 135 verses