कामनीयकमधःकृतकामं काममक्षिभिरवेक्ष्य तदीयम् । कौशिकः स्वमखिलं परिपश्यन्मन्यते स्म खलु कौशिकमेव ॥
Metre: स्वागता
रामणीयकगुणाद्वयवादं मूर्तमुत्थितममुं परिभाव्य । विस्मयाय हृदयानि वितेरुः तेन तेषु न सुराः प्रबभूवुः ॥
Metre: स्वागता
प्रैयरूपकविशेषनिवेशैः संवदद्भिरमराः श्रुतपूर्वैः । एष एव स नलः किमितीदं मन्दमन्दमितरेतरमूचुः ॥
Metre: स्वागता
तेषु तद्विधवधूवरणार्हं भूषणं स समयः स रथाध्वा । तस्य कुण्डिनपुरं प्रतिसर्पन्भूपतेर्व्यवसितानि शशंसुः ॥
Metre: स्वागता
धर्मराजसलिलेशहुताशैः प्राणातां श्रितममुं जगतस्तैः । प्राप्य हृष्टचलविस्तृततापैः चेतसा निभृतमेतदचिन्ति ॥
Metre: उपजातिः
नैव नः प्रियतमोभयथासौ यद्यमुं न वृणुते वृणुते वा । एकतो हि धिगमूमगुणज्ञम् अन्यतः कथमदः प्रतिलम्भः ॥
Metre: स्वागता
मां वरिष्यति तदा यदि मत्तो वेद नेयमियदस्य महत्त्वम् । ईदृशी च कथमाकलयित्री मद्विशेषमपरान्नृपपुत्री ॥
Metre: स्वागता
नैषधे बत वृते दमयन्त्या व्रीडितो नहि बहिर्भवितास्मि । स्वां गृहेऽपि वनितां कथमास्यं ह्रीनिमीलि खलु दर्शयिताहे ॥
Metre: स्वागता
इत्यवेत्य मनसात्मविधेयं किंचन त्रिविबुधी बुबुधे न । नाकनायकमपास्य तमेकं सा स्म पश्यति परस्परमास्यम् ॥
Metre: स्वागता
किं विधेयमधुनेति विमुग्धं स्वानुगाननमवेक्ष्य ऋभुक्षाः । शंसति स्म कपटे पटुरुच्चैः वञ्चनं समभिलष्य नलस्य ॥
Metre: स्वागता