नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 61 to 70 of 123 verses
Verse 61
असितमेकसुराशितमप्यभून्न पुनरेष विधुर्विशदं विषम् । अपि निपीय सुरैर्जनितक्षयं स्वयमुदेति पुनर्नवमार्णवम् ॥
Metre: द्रुतविलम्बितम्

Verse 62
विरहिवर्गवधव्यसनाकुलं कलय पापमशेषकलं विधुम् । सुरनिपीतसुधाकरपापकं ग्रहविदो विपरीतकथाः कथम् ॥
Metre: द्रुतविलम्बितम्

Verse 63
विरहिभिर्बहुमानमवापि यः स बहुलः खलु पक्ष इहाजनि । तदमितिः सकलैरपि यत्र तैः व्यरचि सा च तिथिः किममाकृता ॥
Metre: द्रुतविलम्बितम्

Verse 64
स्वरिपुतीक्ष्णसुदर्शनविभ्रमात्किमु विधुं ग्रसते स विधुंतुदः । निपतितं वदने कथमन्यथा बलिकरम्भनिभं निजमुज्झति ॥
Metre: द्रुतविलम्बितम्

Verse 65
वदनगर्भगतं न निजेच्छया शशिनमुज्झति राहुरसंशयम् । अशित एव गलत्ययमत्ययं सखि ! विना गलनालबिलाध्वना ॥
Metre: द्रुतविलम्बितम्

Verse 66
ऋजुदृशः कथयन्ति पुराविदो मधुभिदं किल राहुशिरश्छिदम् । विरहिमूर्धमिदं निगदन्ति न क्व नु शशी यदि तज्जठरानलः ॥
Metre: द्रुतविलम्बितम्

Verse 67
स्मरसखौ रुचिभिः स्मरवैरिणा मखमृगस्य यथा दलितं शिरः । सपदि संदधतुर्भिषजौ दिवः सखि ! तथा तमसोऽपि करोतु कः ॥
Metre: द्रुतविलम्बितम्

Verse 68
नलविमस्तकितस्य रणे रिपोः मिलति किं न कबन्धगलेन वा । मृतिभिया भृशमुत्पततस्तम् आग्रहशिरस्तदसृग्दृढबन्धनम् ॥
Metre: द्रुतविलम्बितम्

Verse 69
सखि ! जरां परिपृच्छ तमः शिरः सममसौ दधतापि कबन्धताम् । मगधराजवपुर्दलयुग्मवत्किम् इति न व्यतिसीव्यति केतुना ॥
Metre: द्रुतविलम्बितम्

Verse 70
वद विधुंतुदमालि ! मदीरितैः त्यजसि किं द्विजराजधिया रिपुम् । किमु दिवं पुनरेति यदीदृशः पतित एष निषेव्य हि वारुणीम् ॥
Metre: द्रुतविलम्बितम्

Showing 61 to 70 of 123 verses