नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 61 to 70 of 136 verses
Verse 61
मन्दाक्षमन्दाक्षरमुद्रमुक्त्वा तस्यां समाकुञ्चितवाचि हंसः । तच्छंसिते किंचन संशयालुः गिरा मुखाम्भोजमयं युयोज ॥
Metre: उपजातिः

Verse 62
करेण वाञ्छेव विधुं विधर्तुं यमित्थमात्थादरिणी तमर्थम् । पातुं श्रुतिभ्यामपि नाधिकुर्वे वर्णे श्रुतेर्वर्ण इवान्तिमः किम् ॥
Metre: उपजातिः

Verse 63
अवाप्यते वा किमियद्भवत्या चित्तैकपद्यामपि विद्यते यः । यत्रान्धकारः किल चेतसोऽपि जिह्मेतरैर्ब्रह्म तदप्यवाप्यम् ॥
Metre: उपजातिः

Verse 64
ईशाणिमैश्वर्यविवर्तमध्ये लोकेशलोकेशयलोकमध्ये । तिर्यञ्चमप्यञ्च मृषानभिज्ञरसज्ञतोपज्ञसमज्ञमज्ञम् ॥
Metre: उपजातिः

Verse 65
मध्ये श्रुतीनां प्रतिवेशिनीनां सरस्वती वासवती मुखे नः । ह्रियेव ताभ्यश्चलतीयमद्धा पथान्न सत्सङ्गगुणेन नद्धा ॥
Metre: उपजातिः

Verse 66
पर्यङ्कतापन्नसरस्वदङ्कां लङ्कां पुरीमप्यभिलाषि चित्तम् । कुत्रापि चेद्वस्तुनि ते प्रयाति तदप्यवेहि स्वशये शयालु ॥
Metre: उपजातिः

Verse 67
इतीरिता पत्ररथेन तेन ह्रीणा च हृष्टा च बभाण भैमी । चेतो नलङ्कामयते मदीर्यं नान्यत्र कुत्रापि च साभिलाषम् ॥
Metre: उपजातिः

Verse 68
विचिन्त्य बालाजनशीलशैलं लज्जानदीमज्जदनङ्गनागम् । आचष्ट विस्पष्टमभाषमाणामेनां स चक्राङ्गपतङ्गशक्रः ॥
Metre: उपजातिः

Verse 69
नृपेण पाणिग्रहणे स्पृहेति नलं मनः कामयते ममेति । आश्लेषि न श्लेषकवेर्भवत्याः श्लोकद्वयार्थः सुधिया मया किम् ॥
Metre: उपजातिः

Verse 70
त्वच्चेतसः स्थैर्यविपर्ययं तु संभाव्य भाव्यस्मि तमज्ञ एव । लक्ष्ये हि बालाहृदि लोलशीले दरापराद्धेषुरपि स्मरः स्यात् ॥
Metre: उपजातिः

Showing 61 to 70 of 136 verses