तस्या दृशो नृपतिबन्धुमनुव्रजन्त्यास्तं बाष्पवारि न चिरादवधिरबभूव । पार्श्वेऽपि विप्रचकृषे यदनेन दृष्टेः आरादपि व्यवदधे न तु चित्तवृत्तेः ॥
Metre: वसन्ततिलका
अस्तित्वं कार्यसिद्धेः स्फुटमथ कथयन्पक्षतेः कम्पभेदैः आख्यातुं वृत्तमेतन्निषधनरपतौ सर्वमेकः प्रतस्थे । कान्तारे निर्गतासि प्रियसखि ! पदवी विस्मृता किं नु मुग्धे । मा रोदीरेहि यामेत्युपहृतवचसो निन्युरन्यां वयस्याः ॥
Metre: स्रग्धरा
सरसि नृपमपश्यद्यत्र तत्तीरभाजः स्मरतरलमशोकानोकहस्योपमूलम् । किसलयदलतल्पम्लायिनं प्राप तं स ज्वलदसमशरेषुस्पर्धिपुष्पार्द्धिमौलेः ॥
Metre: मालिनी
परवति दमयन्ति ! त्वां न किंचिद्वदामि द्रुतमुपनम किं मामाह सा शंस हंस ! । इति वदति नलेऽसौ तच्छशंसोपनम्रः प्रियमनु सुकृतां हि स्वस्पृहाया विलम्बः ॥
Metre: मालिनी
कथितमपि नरेन्द्रः शंसयामास हंसं किमिति किमिति पृच्छन्भाषितं स प्रियायाः । अधिगतमथ सान्द्रानन्दमाध्वीकमत्तः स्वयमपि शतकृत्वस्तत्तथान्वाचचक्षे ॥
Metre: मालिनी
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् । तार्तीयीकतया मितोऽयमगमत्तस्य प्रबन्धे महाकाव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥
Metre: शार्दूलविक्रीडितम्