यस्ते नवः पल्लवितः कराभ्यां स्मितेन यः कोरकितस्तवास्ते । अङ्गम्रदिम्ना तव पुष्पितो यः स्तनश्रिया यः फलितस्तवैव ॥
Metre: उपजातिः
कांसीकृतासीत्खलु मण्डलीन्दोः संसक्तरश्मिप्रकरा स्मरेण । तुला च नाराचलता निजैव मिथोनुरागस्य समीकृतौ वाम् ॥
Metre: उपजातिः
सत्त्वस्रुतस्वेदमधूत्थसान्द्रे तत्पाणिपद्मे मदनोत्सवेषु । लग्नोत्थितास्त्वत्कुचपत्रलेखाः तन्निर्गतास्तं प्रविशन्तु भूयः ॥
Metre: इन्द्रवज्रा
बन्धाढ्यनानारतमल्लयुद्धप्रमोदितैः केलिवने मरुद्भिः । प्रसूनवृष्टिं पुनरुक्तमुक्तां प्रतीच्छतं भैमि ! युवां युवानौ ॥
Metre: उपजातिः
अन्योन्यसंगमवशादधुना विभातां तस्यापि तेऽपि मनसी विकसद्विलासे । स्रष्टुं पुनर्मनसिजस्य तनुं प्रवृत्तमादाविवि ह्यणुककृत्परमाणुयुगमम् ॥
Metre: वसन्ततिलका
कामः कौसुमचापदुर्जयममुं जेतुं नृपं त्वां धनुर्वल्लीमव्रणवंशजामधिगुणामासाद्य माद्यत्यसौ । ग्रीवालंकृतिपट्टसूत्रलतया पृष्ठे कियल्लम्बया भ्राजिष्णुं कषरेखयेव निवसत्सिन्दूरसौन्दर्यया ॥
Metre: शार्दूलविक्रीडितम्
त्वद्गुच्छावलिमौक्तिकानि गुलिकास्तं राजहंसं विभोर्वेध्यं विद्धि मनोभुवः स्वमपि तां मञ्जुं धनुर्मञ्जरीम् । यन्नित्याङ्कनिवासलालिततमज्याभुज्यमानं लसन्नाभीमध्यबिला विलासमखिलं रोमालिरालम्बते ॥
Metre: शार्दूलविक्रीडितम्
पुष्पेषुश्चिकुरेषु ते शरचयं त्वद्भालमूले धनू रौद्रे चक्षुषि तज्जितस्तनुमनुभ्राष्ट्रं च यश्चिक्षिपे । निर्विद्याश्रयदाश्रयं स वितनुस्त्वां तज्जयायाधुना पत्रालिस्त्वदुरोजशैलनिलया तत्पर्णशालायते ॥
Metre: शार्दूलविक्रीडितम्
इत्यालपत्यथ पतत्रिणि तत्र भैमीं सख्यश्चिरात्तदनुसंधिपराः परीयुः । शर्मास्तु ते विसृज मामिति सोऽप्युदीर्य वेगाज्जगाम निषधाधिपराजधानीम् ॥
Metre: वसन्ततिलका
चेतोजन्मशरप्रसूनमधुभिर्व्यामिश्रतामाश्रयत्त्प्रेयोदूतपतङ्गपुङ्गवगवीहैयङ्गवीनं रसात् । स्वादं स्वादमसीममिष्टसुरभि प्राप्तापि तृप्तिं न सा तापं प्राप नितान्तमन्तरतुलामानर्च्छ मूर्च्छामपि ॥
Metre: शार्दूलविक्रीडितम्