कतिपयदिवसैर्वयस्यया वः स्वयमभिलष्य वरिष्यते वरीयान् । क्रशिमशमनयानया तदाप्तुं रुचिरुचिताथ भवद्विधाविधाभिः ॥
Metre: पुष्पिताग्रा
एवं यद्वदता नृपेण तनया नापृच्छि लज्जास्पदं यन्मोहः स्मरभूरकल्पि वपुषः पाण्डुत्वतापादिभिः । यच्चाशीः कपटादवादि सदृशी स्यात्तत्र या सान्त्वना तन्मत्यालिजनो मनोब्धिमतनोदानन्दमन्दाक्षयोः ॥
Metre: शार्दूलविक्रीडितम्
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् । तुर्यः स्थैर्यविचारणप्रकरणभ्रातर्ययं तन्महाकाव्येऽत्र व्यगलन्नलस्य चरिते सर्गो निसर्गोज्ज्वलः ॥
Metre: शार्दूलविक्रीडितम्