नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 111 to 120 of 123 verses
Verse 111
अधित कापि मुखे सलिलं सखी प्यधित कापि सरोजदलैः स्तनौ । व्यधित कापि हृदि व्यजनानिलं न्यधित कापि हिमं सुतनोस्तनौ ॥
Metre: द्रुतविलम्बित

Verse 112
उपचचार चिरं मृदुशीतलैः जलजनालमृणालजलादिभिः । प्रियसखीनिवहः स तथा क्रमाद् इयमवाप यथा लघु चेतनाम् ॥
Metre: द्रुतविलम्बितम्

Verse 113
अथ कले ! कलय श्वसिति स्फुटं चलति पक्ष्म चले ! परिभावय । अधरकम्पनमुन्नय मेनके ! किमपि जल्पति कल्पलते ! श्रृणु ॥
Metre: द्रुतविलम्बितम्

Verse 114
रचय चारुमति ! स्तनयोर्वृतिं कलय केशिनि ! कैश्यमसंयतम् । अवगृहाण तरङ्गिणि ! नेत्रयोः जलझराविति शुश्रुविरे गिरः ॥
Metre: द्रुतविलम्बितम्

Verse 115
कलकलः स तदालिजनाननाद् उदलसद्विपुलस्त्वरितेरितैः । यमधिगम्य सुतालयमीयिवान्धृतदरः स विदर्भपुरंदरः ॥
Metre: द्रुतविलम्बितम्

Verse 116
कन्यान्तःपुरबाधनाय यदधीकारान्न दोषा नृपं द्वौ मन्त्रिप्रवरश्च तुल्यमगदंकारश्च तावूचतुः । देवाकर्णय सुश्रुतेन चरकस्योक्तेन जानेऽखिलं स्यादस्या नलदं विना न दलने तापस्य कोऽपि क्षमः ॥
Metre: शार्दूलविक्रीडितम्

Verse 117
ताभ्यामभूद्युगपदप्यभिधीयमानं भेदव्यपाकृति मिथःप्रतिघातमेव । श्रोत्रे तु तस्य पपतुर्नृपतेर्न किंचिद्भैम्यामनिष्टशतशङ्कितयाकुलस्य ॥
Metre: वसन्ततिलका

Verse 118
द्रुतविगमितविप्रयोगचिह्नामपि तनयां नृपतिः पदप्रणम्राम् । अकलयदसमाशुगाधिमग्नां झटिति पराशयवेदिनो हि विज्ञाः ॥
Metre: पुष्पिताग्रा

Verse 119
व्यतरदथ पिताशिषं सुतायै नतशिरसे सहसोन्नमय्य मौलिम् । दयितमभिमतं स्वयंवरे ! त्वं गुणमयमाप्नुहि वासरैः कियद्भिः ॥
Metre: पुष्पिताग्रा

Verse 120
तदनु स तनुजासखीरवादीत्तुहिनऋतौ गत एव हीदृशीनाम् । कुसुममपि शरायते शरीरे तद् उचितमाचरतोपचारमस्याः ॥
Metre: पुष्पिताग्रा

Showing 111 to 120 of 123 verses