कुण्डिनेन्द्रसुतया किल पूर्वं मां वरीतुमुररीकृतमास्ते । व्रीडमेष्यति परं मयि दृष्टे स्वीकरिष्यति न सा खलु युष्मान् ॥
Metre: स्वागता
तत्प्रसीदत विधत्त न खेदं दूत्यमत्यसदृशं हि ममेदम् । हास्यतैव सुलभा न तु साध्यं तद्विधित्सुभिरनौपयिकेन ॥
Metre: स्वागता
ईदृशानि गदितानि तदानीम् आकलय्य स नलस्य बलारिः । शंसति स्म किमपि स्मयमानः स्वानुगाननविलोकनलोलः ॥
Metre: स्वागता
नाभ्यधायि नृपते ! भवतेदं रोहिणीरमणवंशभुवैव । लज्जते न रसना तव वाम्यादर्थिषु स्वयमुरीकृतकाम्या ॥
Metre: स्वागता
भङ्गुरं न वितथं न कथं वा जीवलोकमवलोकयसीमम् । येन धर्मयशसी परिहातुं धीरहो चलति धीर ! तवापि ॥
Metre: स्वागता
कः कुलेऽजनि जगन्मुकुटे वः प्रार्थकेप्सितमपूरि न येन । इन्दुरादिरजनिष्ट कलङ्की कष्टमत्र स भवानपि मा भूत् ॥
Metre: स्वागता
यापदृष्टिरपि या मुखमुद्रा याचमानमनु या च न तुष्टिः । त्वादृशस्य सकलः स कलङ्कः शीतभासि शशकृः परमङ्कः ॥
Metre: स्वागता
नाक्षराणि पठता किमपाठि प्रस्मृतः किमथवा पठितोऽपि । इत्थमर्थिचयसंशय दोलाखेलनं खलु चकार नकारः ॥
Metre: स्वागता
अब्रवीत्तमनलः क्व नलेदं लब्धमुज्झसि यशः शशिकल्पम् । कल्पवृक्षपतिमर्थिनमित्थं नाप कोऽपि शतमन्युमिहान्यः ॥
Metre: स्वागता
न व्यहन्यत कदापि मुदं यः स्वः सदामुपनयन्नभिलाषः । तत्पदे त्वदभिषेककृतां नः स त्यजत्वसमतामदमद्य ॥
Metre: स्वागता