नास्ति जन्यजनकव्यतिभेदः सत्यमन्नजनितो जनदेहः । वीक्ष्य वः खलु तनूममृतादं दृङ्गिमज्जनमुपैति सुधायाम् ॥
Metre: स्वागता
मत्तपः क्व नु तनु क्व फलं वा यूयमीक्षणपथं व्रजथेति । ईदृशं परिणमन्ति पुनर्नः पूर्वपूरुषतपांसि जयन्ति ॥
Metre: स्वागता
प्रत्यतिष्ठिपदिलां खलु देवीं कर्म सर्वसहनव्रतजन्म । यूयमप्यहह पूजनमस्या यन्निजैः सृजथ पादपयोजैः ॥
Metre: स्वागता
जीवितावधि किमप्यधिकं वा यन्मनीषितमितो नरडिम्भात् । तेन वश्चरणमर्चतु सोऽयं ब्रूत वस्तु पुनरस्तु किमीदृक् ॥
Metre: स्वागता
एवमुक्तवति वीतविशङ्के वीरसेनतनये विनयेन । वक्रभावविषमामथ शक्रः कार्यकैतवगुरुर्गिरमूचे ॥
Metre: स्वागता
पाणिपीडनमहं दमयन्त्याः कामयेमहि महीमिहिकांशो ! । दूत्यमत्र कुरु नः स्मरभीतिं निर्जितस्मर ! चिरस्य निरस्य ॥
Metre: स्वागता
आसते शतमधिक्षिति भूपाः तोयराशिरसि ते खलु कूपाः । किं ग्रहा दिवि न जाग्रति ते ते भास्करस्य कतमस्तुलयास्ते ॥
Metre: स्वागता
विश्वदृश्वनयना वयमेव त्वद्गुणाम्बुधिमगाधमवेमः । त्वामिहैवमनिवेश्य रहस्ये निर्वृतिं नहि लभेमहि सर्वे ॥
Metre: स्वागता
शुद्धवंशजनितोऽपि गुणस्य स्थानतामनुभवन्नपि शक्रः । क्षिप्नुरेनमृजुमाशु सपक्षं सायकं धनुरिवाजनि वक्रः ॥
Metre: स्वागता
तेन तेन वचसैव मघोनः स स्म वेद कपटं पटुरुच्चैः । आचरत्तदुचितामथ वाणीमार्जवं हि कुटिलेषु न नीतिः ॥
Metre: स्वागता