सेयमुच्चतरता दुरितानाम् अन्यजन्मनि मयैव कृतानाम् । युष्मदीयमपि या महिमानं जेतुमिच्छति कथापथपारम् ॥
Metre: स्वागता
वित्थ चित्तमखिलस्य न कुर्यां धुर्यकार्यपरिपन्थि तु मौनम् । ह्रीर्गिरास्तु वरमस्तु पुनर्मा स्वीकृतैव परवागपरास्ता ॥
Metre: स्वागता
यन्मतौ विमलदर्पणिकायां संमुखस्थमखिलं खलु तत्त्वम् । तेऽपि किं वितरथेदृशमाज्ञां या न यस्य सदृशी वितरीतुम् ॥
Metre: स्वागता
यामि यामिह वरीतुमहो तद्दूततां नु करवाणि कथं वः । ईदृशां न महतां बत जाता वञ्चने मम तृणस्य घृणापि ॥
Metre: स्वागता
उद्भ्रमामि विरहान्मुहुरस्या मोहमेमि च मुहूर्तमहं यः । ब्रुत वः प्रभवितास्मि रहस्यं रक्षितुं स कथमीदृगवस्थः ॥
Metre: आर्यागीति
यां मनोरथमयीं हृदि कृत्वा यः श्वसिम्यथ कथं स तदग्रे । भावगुप्तिमवलम्बितुमीशे दुर्जया हि विषया विदुषापि ॥
Metre: स्वागता
यामिकाननुपमृद्य च मादृक्तां निरीक्षितुमपि क्षमते कः । रक्षिलक्षजयचण्डचरित्रे पुंसि विश्वसिति कुत्र कुमारी ॥
Metre: स्वागता
आदधीचि किल दातृकृतार्घं प्राणमात्रपणसीम यशो यत् । आददे कथमहं प्रियया तत्प्राणतः शतगुणेन पणेन ॥
Metre: स्वागता
अर्थना मयि भवद्भिरिवास्यै कर्तुमर्हति मयापि भवत्सु । भीमजार्थपरयाचनचाटौ यूयमेव गुरवः करणीयाः ॥
Metre: स्वागता
अर्थिताः प्रथमतो दमयन्तीं यूयमन्वहमुपास्य मया यत् । ह्रीर्न चेद्व्यतियतामपि तद्वः सा ममापि सुतरां न तदस्तु ॥
Metre: स्वागता