प्रापितेन चटुकाकुविडम्बं लम्भितेन बहुयाचनलज्जाम् । अर्थिना यदघमर्जति दाता तन्न लुम्पति विलम्ब्य ददानः ॥
Metre: स्वागता
यत्प्रदेयमुपनीय वदान्यैः दीयते सलिलमर्थिजनाय । सार्थनोक्तिविफलत्वविशङ्का त्रासमूर्च्छदपमृत्युचिकित्सा ॥
Metre: स्वागता
अर्थिने न तृणवद्धनमात्रं किं तु जीवनमपि प्रतिपाद्यम् । एवमाह कुशवज्जलदापी दव्यदानविधिरुक्तिविदग्धः ॥
Metre: स्वागता
पङ्कसंकरविगर्हितमर्हं न श्रियः कमलमाश्रयणाय । अर्थिपाणिकमलं विमलं तद्वासवेश्म विदधीत सुधीस्तत् ॥
Metre: स्वागता
याचमानजनमानसवृत्तेः पूरणाय बत जन्म न यस्य । तेन भूमिरतिभारवतीयं न द्रुमैर्न गिरिभिर्न समुद्रैः ॥
Metre: स्वागता
मा धनानि कृपणः खलु जीवं तृष्णयार्पयतु जातु परस्मै । तत्र चैष कुरुते मम चित्रं यत्तु नार्पयति तानि मृतोऽपि ॥
Metre: स्वागता
माममीभिरिह याचितवद्भिः दातृजातमवमत्य जगत्याम् । यद्यशो मयि निवेक्षितमेतन्निष्क्रयोऽस्तु कतमस्तु तदीयः ॥
Metre: स्वागता
लोक एष परलोकमुपेता हा विहाय निधने धनमेकः । इत्यमुं खलु तदस्य निनीषत्यर्थिबन्धुरुदयद्दयचित्तः ॥
Metre: स्वागता
दानपात्रमधर्मणमिहैकग्राहि कोटिगुणितं दिवि दायि । साधुरेति सुकृतैर्यदि कर्तुं पारलौकिककुसीदमसीदत् ॥
Metre: आर्यागीति
एवमादि स विचिन्त्य मुहूर्तं तानवोचत पतिर्निषधानाम् । अर्थिदुर्लभमवाप्य सहर्षान्याच्यमानमुखमुल्लसितश्रि ॥
Metre: स्वागता