नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 71 to 80 of 135 verses
Verse 74
सर्वतः कुशलवानसि किच्चित्वं स नैषध इति प्रतिभा नः । स्वासनार्धसुहृदस्त्वयि रेखां वीरसेननृपतेरिव विद्मः ॥
Metre: स्वागता

Verse 75
क्व प्रयास्यसि नलेत्यलमुक्त्वा यात्रयात्र शुभयाजनि यन्नः । तत्तयैव फलसत्वरया त्वं नाध्वनोऽर्धमिदमागमितः किम् ॥
Metre: स्वागता

Verse 76
एष नैषध ! स दण्डभृदेष ज्वालजालजटिलः स हुताशः । यादसां स पतिरेष च शेषं शासितारमधिगच्छ सुराणाम् ॥
Metre: स्वागता

Verse 77
अर्थितो वयममी समुपेमः त्वां नलेति फलितार्थमवेहि । अध्वनः क्षणमपास्य च खेदं कुर्महे भवति कार्यनिवेदम् ॥
Metre: स्वागता

Verse 78
ईदृशीं गिरमुदीर्य बिडौजा जोषमास न विशिष्य बभाषे । नात्र चित्रमभिधाकुशलत्वे शैशवावधि गुरुर्गुरुरस्य ॥
Metre: स्वागता

Verse 79
अर्थिनामहृषिताखिललोमा स्वं नृपः स्फुटकदम्बकदम्बम् । अर्चनार्थमिव तच्चरणानां स प्रणामकरणादुपनिन्ये ॥
Metre: स्वागता

Verse 80
दुर्लभं दिगधिपैः किममीभिः तादृशं कथमहो मदधीनम् । ईदृशं मनसिकृत्य विरोधं नैषधेन समशायि चिराय ॥
Metre: स्वागता

Verse 81
जीवितावधि वनीयकमात्रैः याच्यमानमखिलैः सुलभं यत् । अर्थिने परिवृढाय सुराणां किं वितीर्य परितुष्यति चेतः ॥
Metre: स्वागता

Verse 82
भीमजा च हृदि मे परमास्ते जीवितादपि धनादपि गुर्वी । न स्वमेव मम सार्हति यस्याः षोडशीमपि कलां किल नोर्वी ॥
Metre: स्वागता

Verse 83
मीयतां कथमभीप्सितमेषां दीयतां कथमयाचितमेव । तं धिगस्तु कलयन्नपि वाञ्छाम् अर्थिवागवसरं सहते यः ॥
Metre: स्वागता

Showing 71 to 80 of 135 verses