शारीं चरन्तीं सखि ! मारयैताम् इत्यक्षदाये कथिते कयापि । यत्र स्वघातभ्रमभीरुशारीकाकूत्थसाकूतहसः स जज्ञे ॥
Metre: इन्द्रवज्रा
भैमीसमीपे स निरीक्ष्य यत्र ताम्बूलजाम्बूनदहंसलक्ष्मीम् । कृतप्रियादूत्यमहोपकारम् अरालमोहद्रढिमानमूहे ॥
Metre: उपजातिः
तस्मिन्नियं सेति सखीसमाजे नलस्य संदेहमथ व्युदस्यन् । अपृष्ट एव स्फुटमावचक्षे स कोऽपि रूपातिशयः स्वयं ताम् ॥
Metre: उपजातिः
भैमीविनोदाय मुदा सखीभिः तदाकृतीनां भुवि कल्पितानाम् । नातर्कि मध्ये स्फुटमप्युदीतं तस्यानुबिम्बं मणिवेदिकायाम् ॥
Metre: उपजातिः
हुताशकीनाशजलेशदूतीः निराकरिष्योः कृतकाकुयाच्ञाः । भैम्या वचोभिः स निजां तदाशां न्यवर्तयद्दूरमपि प्रयाताम् ॥
Metre: उपजातिः
विज्ञप्तिमन्तः सभयः स भैम्या मध्येसभं वासवसम्भलीयाम् । संभालयामास भृशं कृशाशः तदालिवृन्दैरभिनन्द्यमानाम् ॥
Metre: उपजातिः
लिपिर्न दैवी सुपठा भुवीति तुभ्यं मयि प्रेषितवाचिकस्य । इन्द्रस्य दूत्यां रचय प्रसादं विज्ञापयन्त्यामवधानदानैः ॥
Metre: उपजातिः
सलीलमालिङ्गनयोपपीडम् अनामयं पृच्छति वासवस्त्वाम् । शेषस्त्वदाश्लेषकथापनिद्रैः तद्रोमभिः संदिदिशे भवत्यै ॥
Metre: उपजातिः
यः प्रेर्यमाणोऽपि हृदा मघोनः त्वदर्थनायां ह्रियमापदागः । स्वयंवरस्थानजुषस्तमस्य बधान कण्ठं वरणस्रजाशु ॥
Metre: उपजातिः
नैनं त्यज क्षीरधिमन्थनाद्यैः अस्यानुजायोद्गमितामरैः श्रीः । अस्मै विमथ्येक्षुरसोदमन्यां श्राम्यन्तु नोत्थापयितुं श्रियं ते ॥
Metre: इन्द्रवज्रा