नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 71 to 80 of 110 verses
Verse 71
अस्याः करस्पर्धनगर्धनर्द्धिः बालत्वमापत्खलु पल्लवो यः । भूयोऽपि नामाधरसाम्यगर्वं कुर्वन्कथं वास्तु न स प्रवालः ॥
Metre: इन्द्रवज्रा

Verse 72
अस्यैव सर्गाय भवत्करस्य सरोजसृष्टिर्मम हस्तलेखः । इत्याह धाता हरिणेक्षणायां किं हस्तलेखीकृतया तयाऽस्याम् ॥
Metre: उपजातिः

Verse 73
किं नर्मदाया मम सेयमस्या दृश्याभितो बाहुलतामृणाली । कुचौ किमुत्तस्थतुरन्तरीये स्मरोष्मशुष्यत्तरबाल्यवारः ॥
Metre: उपजातिः

Verse 74
तालं प्रभु स्यादनुकर्तुमेतावुत्थानसुस्थौ पतितं न तावत् । परं च नाश्रित्य तरुं महान्तं कुचौ कृशाङ्ग्याः स्वत एव तुङ्गौ ॥
Metre: उपजातिः

Verse 75
एतत्कुचस्पर्धितया घटस्य ख्यातस्य शास्त्रेषु निदर्शनत्वम् । तस्माच्च शिल्पान्मणिकादिकारी प्रसिद्धनामाजनि कुम्भकारः ॥
Metre: उपजातिः

Verse 76
गुच्छालयस्वच्छतमोदबिन्दु वृन्दाभमुक्ताफलफेनिलाङ्के । माणिक्यहारस्य विदर्भसुभ्रूपयोधरे रोहति रोहितश्रीः ॥
Metre: उपजातिः

Verse 77
निःशङ्कसंकोचितपङ्कजोयम् अस्यामुदीतो मुखमिन्दुबिम्बः । चित्रं तथापि स्तनकोकयुग्मं न स्तोकमप्यञ्चति विप्रयोगम् ॥
Metre: इन्द्रवज्रा

Verse 78
आभ्यां कुचाभ्यामिभकुम्भयोः श्रीरादीयतेऽसावनयोर्न ताभ्याम् । भयेन गोपायितमौक्तिकौ तौ प्रव्यक्तमुक्तभरणाविमौ यत् ॥
Metre: उपजातिः

Verse 79
कराग्रजाग्रच्छतकोटिरर्थी ययोरिमौ तौ तुलयेत्कुचौ चेत् । सर्वं तदा श्रीफलमुन्मदिष्णु जातं वटीमप्यधुना न लब्धुम् ॥
Metre: उपजातिः

Verse 80
स्तनावटे चन्दनपङ्किलेऽस्या जातस्य यावद्युवमानसानाम् । हारावलीरत्नमयूखधाराकाराः स्फुरन्ति स्खलनस्य रेखाः ॥
Metre: उपजातिः