नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 51 to 60 of 110 verses
Verse 51
विलोकितास्या मुखमुन्नमय्य किं वेधसेयं सुषमासमाप्तौ । धृत्युद्भवा यच्चिबुके चकास्ति निम्ने मनागङ्गुलियन्त्रणेव ॥
Metre: उपजातिः

Verse 52
प्रियामुखीभूय सुखी सुधांशुः जयत्ययं राहुभयव्ययेन । इमां दधाराधरबिम्बलीलां तस्यैव बालं करचक्रवालम् ॥
Metre: उपजातिः

Verse 53
अस्या मुखस्यास्तु न पूर्णमास्यं पूर्णस्य जित्वा महिमा हिमांशुम् । भ्रूलक्ष्म खण्डं दधदर्धमिन्दुः भालस्तृतीयः खलु यस्य भागः ॥
Metre: इन्द्रवज्रा

Verse 54
व्यधत्त धाता मुखपद्ममस्याः सम्राजमम्भोजकुलेऽखिलेऽपि । सरोजराजौ सृजतोऽदसीयां नेत्राभिधेयावत एव सेवाम् ॥
Metre: उपजातिः

Verse 55
दिवारजन्यो रविसोमभीते चन्द्राम्बुजे निक्षिपतः स्वलक्ष्मीम् । आस्ये यदास्या न तदा तयोः श्रीः एकश्रियेदं तु कदा न कान्तम् ॥
Metre: उपजातिः

Verse 56
अस्या मुखश्रीप्रतिबिम्बमेव जलाच्च तातान्मुकुराच्च मित्रात् । अभ्यर्थ्य धत्तः खलु पद्मचन्द्रौ विभूषणं याचितकं कदाचित् ॥
Metre: उपजातिः

Verse 57
अर्काय पत्ये खलु तिष्ठमाना भृङ्गैर्मितामक्षिभिरम्बुकेलौ । भैमीमुखस्य श्रियमम्बुजिन्यो याचन्ति विस्तारितपद्महस्ताः ॥
Metre: इन्द्रवज्रा

Verse 58
अस्या मुखेनैव विजित्य नित्यस्पर्धी मिलत्कुङ्कुमरोषभासा । प्रसह्य चन्द्रः खलु नह्यमानः स्यादेव तिष्ठत्परिवेषपाशः ॥
Metre: उपजातिः

Verse 59
विधोर्विधिर्बिम्बशतानि लोपं लोपं कुहूरात्रिषु मासि मासि । अभङ्गुरश्रीकममुं किमस्या मुखेन्दुमस्थापयदेकशेषम् ॥
Metre: उपजातिः

Verse 60
कपोलपत्रान्मकरात्सकेतुः भ्रूम्यां जिगीषुर्धनुषा जगन्ति । इहावलम्ब्यास्ति रतिं मनोभू रज्यद्वयस्यो मधुनाधरेण ॥
Metre: उपजातिः

Showing 51 to 60 of 110 verses