वियोगबाष्पाञ्चितनेत्रपद्मच्छद्मार्पितोत्सर्गपयःप्रसूनौ । कर्णौ किमस्या रतितत्पतिभ्यां निवेद्यपूपौ विधिशिल्पमीदृक् ॥
Metre: उपजातिः
इहाविशद्येन पथातिवक्रः शास्त्रौघनिष्यन्दसुधाप्रवाहः । सोऽस्याः श्रवः पत्रयुगे प्रणालिरेखेव धावत्यभिकर्णकूपम् ॥
Metre: उपजातिः
अस्या यदष्टादश संविभज्य विद्याः श्रुती दध्रतुरर्धमर्धम् । कर्णान्तरुत्कीर्णगभीररेखः किं तस्य संख्यैव नवा नवाङ्कः ॥
Metre: इन्द्रवज्रा
मन्येऽमुना कर्णलतामयेन पाशद्वयेन च्छिदुरेतरेण । एकाकिपाशं वरुणं विजिग्येऽ– नङ्गीकृतायासतती रतीशः ॥
Metre: इन्द्रवज्रा
आत्मैव तातस्य चतुर्भुजस्य जातश्चतुर्दोरुचितः स्मरोऽपि । तच्चापयोः कर्णलते भ्रुवोर्ज्ये वंशत्यगंशौ चिपिटे किमस्याः ॥
Metre: इन्द्रवज्रा
ग्रीवाद्भुतैवावटुशोभितापि प्रसाधिता माणवकेन सेयम् । आलिङ्ग्यतामप्यबलम्बमाना सुरूपताभागखिलोर्ध्वकाया ॥
Metre: उपजातिः
कवित्वगानप्रियवादसत्यान्यस्या विधाता व्यधिताधिकण्ठम् । रेखात्रयन्यासमिषादमीषां वासाय सोऽयं विबभाज सीमाः ॥
Metre: उपजातिः
बाहू प्रियाया जयतां मृणालं द्वन्द्वे जयो नाम न विस्मयोऽस्मिन् । उच्चैस्तु तच्चित्रममुष्य भग्नः योलोक्यते निर्व्यथनं यदन्तः ॥
Metre: इन्द्रवज्रा
अजीयतावर्तशुभंयुनाभ्यां दोर्भ्यां मृणालं किमु कोमलाभ्याम् । निःसूत्रमास्ते घनपङ्कमृत्सु मूर्तासु नाकीर्तिषु तन्निमग्नम् ॥
Metre: उपजातिः
रज्यन्नखस्याङ्गुलिपञ्चकस्य मिषादसौ हैङ्गुलपद्मतूणे । हैमैकपुङ्खास्ति विशुद्धपर्वा प्रियाकरे पञ्चशरी स्मरस्य ॥
Metre: उपजातिः