क्षीणेन मध्येऽपि सतोदरेण यत्प्राप्यते नाक्रमणं वलिभ्यः । सर्वाङ्गशुद्धौ तदनङ्गराज्य विजृम्भितं भीमभुवीह चित्रम् ॥
Metre: उपजातिः
मध्यं तनूकृत्य यदीदमीयं वेधा न दध्यात्कमनीयमंशम् । केन स्तनौ संप्रति यौवनेऽस्याः सृजेदनन्यप्रतिमाङ्गयष्टेः ॥
Metre: उपजातिः
गौरीव पत्या सुभगा कदाचित्कर्तेयमप्यर्धतनूसमस्याम् । इतीव मध्ये विदधे विधाता रोमावलीमेचकसूत्रमस्याः ॥
Metre: उपजातिः
रोमावलीरज्जुमुरोजकुम्भौ गम्भीरमासाद्य च नाभिकूपम् । सद्रष्टितृष्णा विरमेद्यदि स्यान्नैषां बतैषा सिचयेन गुप्तिः ॥
Metre: इन्द्रवज्रा
उन्मूलितालानविलाभनाभिः छिन्नस्खलच्छृङ्खलरोमराजिः । मत्तस्य सेयं मदनद्विपस्य प्रस्वापवप्रोच्चकुचास्तु वास्तु ॥
Metre: इन्द्रवज्रा
रोमावलिभ्रूकुसुमैः स्वमौर्वीचापेषुभिर्मध्यललाटमूर्ध्नि । व्यस्तैरपि स्थास्नुभिरेतदीयैर्जैत्रः स चित्रं रतिजानिवीरः ॥
Metre: इन्द्रवज्रा
पुष्पाणि बाणाः कुचमण्डनानि भ्रुवौ धनुर्भालमलंकरिष्णु । रोमावली मध्यविभूषणं ज्या तथापि जेता रतिजानिरेतैः ॥
Metre: उपजातिः
अस्याः खलु ग्रन्थिनिबद्धकेशमल्लीकदम्बप्रतिबिम्बवेषात् । स्मरप्रशस्ती रजताक्षरेयं पृष्ठस्थलीहाटकपट्टिकायाम् ॥
Metre: उपजातिः
चक्रेण विश्वं युधि मत्स्यकेतुः पितुर्जितं वीक्ष्य सुदर्शनेन । जगज्जिगीषत्यमुना नितम्बम् अयेन किं दुर्लभदर्शनेन ॥
Metre: उपजातिः
रोमवलीदण्डनितम्बचक्रे गुणं च लावण्यजलं च बाला । तारुण्यमूर्तेः कुचकुम्भकर्तुः बिभर्ति शङ्केः सहकारिचक्रम् ॥
Metre: उपजातिः